This page has not been fully proofread.

७५८
 
न्यायकोशः ।
 
पदान प्रयोजनं कथ्यते । पशुः समुद्रं न तरेत् इत्यादी मवादिना
समुद्रतरणादेः पक्कुप्रभृतिकृतिसाभ्यत्वनिषेधबोधानुरोधादवश्यं कृति-
साभ्यस्वं लिङर्थः स्वीकार्यः । तृप्तिकामो जलं न ताडयेत् इत्यादौ जल-
ताडनादेस्तृप्तिकामेष्टसाधनस्वस्य निषेधान्वयानुपपत्येष्टसाधनत्वं लिङ-
बश्यं स्वीकर्तव्यः । अपरे तु चैत्यं न वन्देत इति वाक्यप्रामाण्यानुरोधे-
नेष्टसाधनत्वस्य विध्यर्थत्वमावश्यकम् इति वदन्ति ( ग० व्यु० ४० ) ।
न कलशं मुजीत इत्यादौ कलञ्जभक्षणादेर्बलबदनिष्टाजनकत्वस्य निषेधा-
नुपपत्या बळवदनिष्टाननुबन्धित्वं लिङर्थोवश्यं स्वीकर्तव्यः (श० प्र०
हो० १०० टी० पृ० १४६ ) । कलखो मांसविशेषः । तथा चोक्तं माघ-
बाचार्यैर्न्यायमालायाम् विषाक्तशराग्रेण विद्धा ये पशुपक्ष्यादयस्तेषां यन्मांसं
तदेव कलझम् इति । रक्तलशुनं कलञ्जम् इति हरदत्त आइ । बलवद-
निष्टाननुबन्धित्वं चात्र नरकाजनकत्वम् पापाजनकत्वं वा ( श० प्र० श्लो०
१०० टी० पृ० १५१) । एतेषां बलवदनिष्टाननुबन्धित्वादिषु त्रिषु पृथगेव
लिङः शक्तित्रयं वदतां नव्यनैयायिकानां मते श्येनः स्वरूपत एव निषिद्धः
इति श्येनेनाभिचरन् यजेत इत्यादौ विधिप्रत्ययेन बलबदनिष्टाननुबन्धित्वं
न बोध्यते । अधिकं तु अभिचारशब्दव्याख्याने द्रष्टव्यम् । तथा च न
कलशं भक्षयेत् इत्यादौ बलवदनिष्टाजनकत्वं विध्यर्थः । तदभावो नमात्र
बोध्यते इति विज्ञेयम् (मु० ) ( दि० गु० पृ० २२५ - २२९ ) ।
अत्र वदन्ति । द्वेष विषयतावच्छेदकत्वोपलक्षित नरकत्वाद्याश्रयसाधनता-
त्वावच्छिन्नप्रतियोगिताका भावकूटे तादृशभावत्वेनानुगत एकैव विधि-
प्रत्ययस्य शक्तिः इति ( ग० व्यु० ल० पृ० १४८ ) । यजेतेत्यादौ
यागादिधर्मिकादिष्टसाधनत्वादिनिश्चयादेव यागादिधर्मिकचिकीर्षोत्पस्या
तत्र प्रवृत्तिः । एवं च यागादिः कृतिसाध्यः इष्टसाधनम् बलवदनिष्टा-
मनुबन्धी च इत्याकारको बोधः (श० प्र० श्लो० १०० टी० पृ० १४६ ) ।
उदयनाचार्यास्तु आप्ताभिप्रायो विध्यर्थ इत्याहुः (कु० ५) ( न्या०
सि० दी० पृ० ६० ) ( म० प्र० ४ पृ० ५९) । तदर्थव आप्तस्य
परमेश्वरस्य अभिप्राय इच्छा लिङादिना बोध्यते । अत्रोक्तमुदयनाचार्यैः
यस्तु वेदे ईश्वरप्रणीतत्वम् नाम्युपैति तं प्रति विधिरेष ताबद्गर्मः श्रुति-