2023-02-20 00:54:07 by ambuda-bot
This page has not been fully proofread.
यो ।
द्विविधः । यथार्थ: अयथार्थः । आचः तद्वति तत्प्रकारकानुभवः । स एव
प्रमेस्युच्यते । द्वितीयः तदभाववति सप्रकारकानुभवः । लोप्रमेत्युच्यते ।
यथार्थश्चतुर्विधः । प्रत्यक्षम् अनुमितिः उपमितिः शाब्दः । यथार्था-
नुभवकरणमपि चतुर्विधम् । प्रत्यक्षम् अनुमानम् उपमानम् शब्दः इति
( त० सं० ) ( मा० ५० ५३ ) । एवमेवाययार्थानुभवोपि चतुर्विध इति
तत्करणमपि चतुर्विधमिति च विज्ञेयम् । वैशेषिकमतेनुभवो द्विविधः ।
प्रमा अप्रमा चेति । तत्राप्रमारूपोनुभवो द्विविधः । भ्रमः संशयवेति
( त० कौ० ६ ) । २ विषयानुरूपा बुद्धिवृत्तिरनुभव इति पातञ्जला:
सांख्याः केचिद्वेदान्तिनबाडुः । विषयानुरूपत्वं च चित्तवृतेः वृत्तिसा-
रूप्यमितरत्र ( पा० सू० १।४ ) इति पातखलसूत्रे मिहितम् । तथा
हि । यथा पयः प्रणाल्या क्षेत्रादिकं प्राप्य चतुरस्त्राद्याकारेण परिणमते
एवमेवेन्द्रियादिप्रणाल्यान्तःकरणं बहिर्निःसृत्य विषयाकारेण परिणमते ।
ताशपरिणामरूपवृत्या च विषयगतमज्ञानं निवारयतीति अन्तःकरणस्य
विषयानुरूपभवनादनुभवत्वम् । स्मृतौ तु विषयसंनिकर्षाभावात् न विषया-
कारता प्राप्तिरिति तद्विने ज्ञाने एवान्तःकरणस्यानुभवस्वम् ।
अनुभाव: - १ अनुभवबदस्यार्थोनुसंधेयः । २ कोषदण्डादिजातो राज्ञां
तेजोविशेष इति नीतिशास्त्रज्ञाः । ३ रसव्यञ्जको भूभङ्गादिरित्यालंका-
रिकाः । तत्रोक्तम्-भावं मनोगतं साक्षात्स्वगतं व्यञ्जयन्ति ये । तेनुभावा
इति ख्याताः इति । उद्बुद्धं कारणैः स्वैः स्वैर्बहिर्भाव प्रकाशयन् । लोके
यः कार्यरूप: सोनुभाव: काव्यनाज्ययोः ॥ इति च ( वाच० ) । ४
[क] सामर्थ्यमिति केचिदाडु: (वाच०) । [ख] कर्मपुद्गलानां स्वकार्य-
करणे सामर्थ्य विशेषोनुभावः ( सर्व० सं० पृ० ७८ भाईत० ) ।
अनुभूतिः - [क] अनुभववदस्यार्थोनुसंधेयः ( मा०प० ५२ ) । अनु-
भूतिः प्रत्यक्षात्मिकैवेति चार्वाका आहुः । अनुमितिरपीति काणादसौ-
गतौ । उपमितिरपीति केचिनैयायिकैकदेशिनः । अर्थापत्तिरपीति प्राभा-
कराः । अनुपलब्धिरपीति भट्टवेदान्तिनः । संभवरूपा ऐतिरूपा
चापीति पौराणिकाः ( दि० १ ३ ) । चेष्टापति ताधिकाः ( सि०
S