This page has not been fully proofread.

न्यायकोशः ।
 
अग्निहोत्रं जुहुयात् स्वर्गकामः इत्यादि इत्याहुः । अयं विधिर्मानान्तरेणा-
प्राप्तं स्वर्गप्रयोजनवद्धोमं विधत्ते । अग्निहोत्रहोमेन स्वर्गे भावयेत् इति
वाक्यार्थबोध: ( लौ० भा० पृ० १३ ) । यत्र कर्म मानान्तरेण प्राप्तम्
तत्र तदुद्देशेन गुणमात्रं विधत्ते । यथा दना जुहोति (तै० ब्रा० २११/५)
(शतप ० ) इति । अत्र होमस्य अग्निहोत्रं जुहुयात् इत्यनेन प्राप्तत्वाद्धोमो-
द्देशेन दधिमात्र विधानम् । दना होमं भावयेत् इति वाक्यार्थः । यत्र तूभं-
यमप्राप्तम् तत्र विशिष्टं विधत्ते । यथा सोमेन यजेत (शतपथ ० ) इत्यत्र
सोमयागयोरप्राप्तत्वात् सोमविशिष्टयागविधानम् । सोमपदे मत्वर्थलक्षणया
सोमवता यागेनेष्टं भावयेत् इति वाक्यार्थबोध: ( लौ० भा० १० १३) ।
[च ] धर्मार्थसाधकव्यापारो विधि: (सर्व० सं० पृ० १६९ नकुली० ) ।
[ छ ] अज्ञातस्यानुष्ठेयत्वकथनं विधिः ( जै० न्या० अ० १ पा० ४
अधि० ६ ) । सामान्यतोयं विधिर्द्विविधः लौकिक: वैदिकश्च । तत्र
लौकिक: ओदनकामस्तण्डुलं पचेत् इत्यादिः । वैदिक विधिस्तु स्वर्गकामो
यजेत (शतपथ ० ) इत्यादिः । विधिः प्रकारान्तरेण त्रिविधः अपूर्वविधिः
नियमविधिः परिसंख्याविधिश्व ( न्या० म० ४ ) ( सि० च० ) ।
तदुक्तं भट्टपादैः विधिरत्यन्तमप्राप्तौ नियमः पाक्षिके सति । तत्र चान्यत्र
च प्राप्तौ परिसंख्येति कीर्यते ॥ ( न्या० म० ४ ) इति । तत्रापूर्व-
विधिश्चतुर्विधः उत्पत्तिविधिः विनियोगविधिः प्रयोगविधिः अधिकार-
विधिश्चेति (लौ० भा० पृ० १६ ) । तत्र प्राथमिक प्रतीतिविषयप्रवृत्ति
साधनेष्टसाधनताबोधकं कर्मस्वरूपज्ञापकं विधिवाक्यम् उत्पत्तिविधिः ।
यथा स्वर्गकामोश्वमेधेन यजेत (शतपथ ० ) इत्यादिवाक्यम् ( वाच० ) ।
अत्र शिष्टं तु उत्पत्तिविधिशब्दव्याख्याने दृश्यम् । अधिकारविधिश्च
कर्मणः फलसंबन्धबोधको विधिः । यथा ज्योतिष्टोमेन यजेत स्वर्गकामः
इत्यादिः ( म० प्र० पृ० ६३ ) । अथ वा कर्मजन्यफलस्वाम्यबोधको
विधिः । कर्मजन्यफलस्खाम्यं च कर्मजन्यफलभोक्तृत्वम् । यथा यजेत
स्वर्गकामः इत्यादिरूपोधिकारविधिः । अत्र स्वर्गमुद्दिश्य यागं विदधतानेन
स्वर्गकामस्य यागजन्यफलभोक्तृत्वं प्रतिपाद्यते ( लौ० भा० पू० ३८) ।
यथा वा यस्याहिताग्नेरग्निर्गृहान् दहेत्सोग्नये क्षामवतेष्टाकपालं निर्वपेत्