2023-02-20 00:56:41 by ambuda-bot
This page has not been fully proofread.
न्यायकोशः ।
तद्विधा ( मनु० २।११२ ) इत्यादौ । ४ काव्यज्ञास्तु सादृश्यम् । यथा
तथाविधः स्वार्थ : ( श० प्र० लो० ७ टी० पृ० ८ ) इत्यादौ । यथा वा
किमप्यहिंस्यस्तव चेन्मतोहं यशःशरीरे भव मे दयालुः । एकान्त विध्वंसिषु
मद्विधानां पिण्डेष्वनास्था खलु भौतिकेषु ॥ (रघु० २१५७) इत्यादौ इत्याहुः ।
विघानम् –अप्रवृत्तप्रवर्तनम् । तच्च पुरुषविषयः शब्दव्यापारः ( जै०
न्या० अ० २ पा० ३ अधि० १३ ) ।
-
विधिः - १ ( प्रमाणशब्दः) [क] विधिर्विधायकः ( गौ० २।१।६३ ) ।
अयं विधिर्ब्राह्मणभागः ( वात्स्या० २।१।६२ ) । अत्राभिषैव लिङर्थः ।
सैव च प्रवृत्तिहेतुः इति विज्ञेयम् ( त० प्र० ख० ४ पृ० ९४ )।
अत्र विधिशब्दस्य विधिरूपशब्दे इष्टसाधनत्वादिरूपे विध्यर्थे च प्रयोगो
दृश्यते । तत्र विधायक इति आद्यर्थः । यद्वाक्यं विधायकं चोदकं स
विधिः । विधिस्तु नियोगोनुज्ञा वा । यथा अग्निहोत्रं जुहुयात्स्वर्गकामः
( शतपथ ० २ ) इत्यादि (वात्स्या० २ । १ । ६३ ) । [ ख ] इष्टसाध-
नताबोधक प्रत्ययसमभिव्याहृतवाक्यम् (गौ० वृ० २११/६३ ) । [ग]
विध्यभिधायकप्रत्ययः तद्घटितवाक्यं वा ( न्या० म० ४ ) । तदर्थश्च
विधीयते विधिरूपशब्देन प्रतिपाद्यतेसौ विधिरिष्टसाधनत्वादिः । तस्या-
भिधायको वाचकः इति । अथ वा अर्थविशेषाभिधायकः प्रत्ययः । स
च प्रत्ययो लिङ्लोट्लेट्तव्यकृत्यप्रत्ययरूपः इति ( सि० च० ) ( म०
प्र० ४ पृ० ५८) ( त० प्र० ख० ४ पृ० ९३ ) । तद्घटितवाक्य-
मिति द्वितीयं लक्षणं तु तान्त्रिकमते यजेत इत्यादिवाक्यमेत्र विधिः न तु
केवलप्रत्ययः इत्यभिप्रायेण । [घ ] प्रवृत्तिपरं वाक्यम् । यथा ज्योति-
ष्टोमेन स्वर्गकामो यजेत (शतपथ ० ) ओदनकामस्तण्डुलं पचेत इत्यादि ।
अत्र ज्योतिष्टोमनामको यागः स्वर्गरूपेष्टसाधनम् तण्डुलकर्मकः पाक
ओदनरूपेष्टसाधनम् इत्युभयवाक्यार्थः । यजेत पचेतेत्यादिविधिप्रत्यये-
नेष्टसाधनत्वोपस्थापनात् ( त० कौ० ) । [ङ ] मीमांसकास्तु अज्ञा-
तार्थज्ञापको वेदभागः ( अपूर्वविधिः ) । सच तादृशप्रयोजनवदर्थ-
विधानेनार्थवान् । तादृशं चार्थ प्रमाणान्तरेणाप्राप्तं विधत्ते । यथा