2023-02-20 00:56:40 by ambuda-bot
This page has not been fully proofread.
न्यायकोशः ।
७५३
वार्तारम्भांच लोकतः ॥ ( मनु० अ० ७ लो० ४३ ) इति । वार्तिके
चोक्तम् चतत्र इमा विद्या भवन्ति । ताश्च पृथक्प्रस्थानाः अग्निहोत्र-
हवनादिप्रस्थाना त्रयी । हलशकटादिप्रस्थाना वार्ता । स्वाम्यमात्यभेदानु-
विधायिनी दण्डनीतिः । संशयादिभेदानुविधायिन्यान्वीक्षिकी ( न्या०
वा० पृ० १३ ) । ३ पौराणिकनये विद्याश्चतुर्दश अष्टादश चापि ।
ता उच्यन्ते । विद्याश्चतुर्दश प्रोक्ताः क्रमेण तु यथास्थिति । षडङ्गमिश्रिता
वेदा धर्मशास्त्रं पुराणकम् ॥ मीमांसा तर्कमपि च एता विद्याश्चतुर्दश
( नन्दिपु० ) इति । पुराणन्यायमीमांसाधर्मशास्त्राङ्गमिश्रिताः । वेदाः
स्थानानि विद्यानां धर्मस्य च चतुर्दश । ( याज्ञ० १ । ३ ) इति च ।
अष्टादश चान्यत्रोक्ताः । ता उच्यन्ते । अङ्गानि वेदाश्चत्वारो मीमांसा
न्यायविस्तरः । धर्मशास्त्रं पुराणं च विद्या होताश्चतुर्दश ॥ आयुर्वेदो
धनुर्वेदो गान्धर्वश्चेति ते त्रयः । अर्थशास्त्रं चतुर्थ च विद्या ह्यष्टादशैव
ता: ( विष्णुपु० ) ( वाच० ) । श्रुतौ तु विद्या द्विविधोक्ता परा अपरा
च । तत्र परा यया ब्रह्मावगमः सा । ययाक्षरमधिगम्यते सा परा
इति श्रुतेः । ऋग्वेदादिलक्षणा अपरा । सा चाध्ययनाध्यापनरूपा
( वाच० ) । विद्यामेदेन देवताभेदाः ( हेमा० ब्र० ) विष्णुधर्मोत्तरे
उक्ताः तास्तत्रैव दृश्याः । ४ पशुगुणो विद्या ( सर्व० सं० पृ १६७
नकुली ० ) ।
विद्येश्वरः – अनन्तश्चैव सूक्ष्मश्च तथैव च शिवोत्तमः । एकनेत्रस्तथैवैकरुद्र-
श्चापि त्रिमूर्तिकः । श्रीकण्ठश्च शिखण्डी च प्रोक्ता विद्येश्वरा इमे
( सर्व० सं० १० १८३ शै० ) ।
विधवा
मृतभर्तृका स्त्री । विधवाधर्माश्च ( शु० त० ) विष्णुना उक्ता
यथा मृते भर्तरि ब्रह्मचर्यम् तदन्वारोहणं वा । तत्र ब्रह्मचर्य मैथुनवर्जनं
ताम्बूलादिवर्जनं च । यथाह प्रचेताः ताम्बूलाभ्यञ्जनं चैष कांस्यपात्रे च
भोजनम् । यतिश्च ब्रह्मचारी च विधवा च विवर्जयेत् ॥ अनुयाति
न भर्तारं यदि दैवात्कदाचन । तथापि शीलं संरक्ष्यं शीलभङ्गात्पतत्यधः ॥
विधवाकबरीबन्धो भर्तृबन्धाय जायते । शिरसो वपनं तस्मात् कार्य
९५ न्या० को०