2023-02-20 00:56:40 by ambuda-bot
This page has not been fully proofread.
न्यायकोशः ।
-
विजया - ( सप्तमी) शुक्लपक्षस्य सप्तम्यां रविवारो भवेद्यदि । सप्तम
विजया ज्ञेया तत्र दत्तं महाफलम् ॥ ( पु० चि० पृ० १०५) ।
विजातीयम् – १ लक्ष्यतावच्छेदकसाक्षाड्यापकजात्यनबच्छिन्नम् । यह
गोविजातीयो घटः । तथा हि गोर्लक्षणस्य सास्नादिमत्त्वस्य विजातीय-
व्यावृत्ति प्रयोजनकत्वे गोत्वं लक्षणलक्ष्यतावच्छेदकम् । तस्य साक्षा-
व्यापकं पशुत्वम् । तदनवच्छिन्नो घटो भवति इति विज्ञेयम् ( प्र
च० पृ० ३ ) । २ तद्वृत्यसाधारण विशेषधर्मशून्यस्त द्विजातीयः इति
तु वयं ब्रूमः ।
विज्ञानम् – १ बुद्धिशब्द वदस्यार्थोनुसंधेयः । २ पौराणिकाश्च चतुर्दशविद्या-
धारणम् इत्याहुः । तदुक्तम् चतुर्दशानां विद्यानां धारणं हि यथार्थतः :
विज्ञानमितरद्विद्याद्येन धर्मो विवर्धते ॥ ( कूर्मपु० अ० १४ :
( वाच० ) इति । ३ मायावादिनस्तु अविद्यावृत्तिविशेषः आत्मैक्यज्ञानं च
विज्ञानम् इत्यङ्गीचक्रुः । ४ काव्यज्ञास्तु शिल्पादिज्ञानम् इत्याहुः ।
५ विज्ञानवादिनो बौद्धास्तु विज्ञानं द्विविधम् प्रवृत्तिविज्ञानम् आलय-
विज्ञानं च। तत्राद्यम् अयं घटः इत्याद्याकारकम् । द्वितीयं च अहं जानामि
इत्याकारकम् । तदेव आत्मा इत्युच्यते इति वदन्ति । ६ निरवशेषशास्त्र-
विषयं ग्रन्थतोर्थतश्च सिद्धिज्ञानं विज्ञानम् (सर्व० सं० पृ० १६६ नकुली ० ) ।
विज्ञानस्कन्धः – आलयविज्ञानप्रवृत्तिविज्ञानप्रवाह: ( सर्व० सं० पृ०
४००) ।
विज्ञानाकलः– विज्ञानयोगसंन्यासैर्भोगेन वा कर्मक्षये सति कर्मक्षयार्थस्य
कलादिभोगबन्धस्याभावात्केवलमलमात्रयुक्तो विज्ञानाकल : ( सर्व० सं०
पृ० १८२ शै० ) ।
वितण्डा – ( कथा ) [ क ] स प्रतिपक्षस्थापनाहीनो वितण्डा ( गौ०
१।२/३ ) । स जल्पो वितण्डा भवति । किंविशेषणः । प्रतिपक्ष-
स्थापनया हीनः । यौ तौ समानाधिकरणौ विरुद्धौ धर्मो पक्षप्रतिपक्षा-
वित्युक्तौ तयोरेकतरं वैतण्डिको न स्थापयतीति परपक्षप्रतिषेधेनैव प्रवर्तत
.