This page has not been fully proofread.

न्यायकोशः ।
 
अत्रेदमधिकं ज्ञेयम् । विग्रह एव समासलम्यार्थस्य बोधकत्वं तन्त्रम् न तु
समासे विग्रहार्थस्य । विग्रहलम्ययोर्लिङ्गसंख्ययोर्व्यञ्जकवैधुर्येण प्रायशः
समासाबोध्यत्वात् ( श० प्र० श्लो० ३२ पृ० ४० ) इति । केचिच्छा-
ब्दिका: वृत्त्यर्थावबोधकं वाक्यं विग्रहः इति वदन्ति ( म० प्र० ४
पृ० ४३ ) । अन्ये वैयाकरणास्तु समासादिवृत्तिसमानार्थकबाक्यविशेषः
इत्याहुः । २ विशेषज्ञानम् । यथा अविग्रहागतादिस्था यथा ग्रामादिकर्मभिः
( हरिवं ० ) इत्यादौ इति पौराणिका आहुः । ३ विस्तारः इत्यमरसिंह
आह । ४ युद्धम् इति नीतिशास्त्रज्ञा आहुः । ५ देहः इति काव्यज्ञा वदन्ति ।
विघातः - १ ध्वंस: ( दि० १ ) । यथा विघ्नविघाताय मङ्गलम् (मु०
१ ) इत्यादौ । २ आघातः ।
 
विघ्नः
 
-
 
– समीहितक्रियास्वरूप प्रतिबन्धकम् । तच्च कचित् दुरितम् ( कि०
व० ४ ) । यथा सर्वे विघ्नाः शमं यान्ति विघ्नेशस्तवपाठतः इत्यादौ ।
लक्षणं तु विघ्नत्वम् । । तच्च मङ्गलनाश्यतावच्छेदकः अदृष्टनिष्ठो जाति-
विशेषः । विघ्नकारणं च मङ्गलाभावेतरविघ्नप्रागभावनाशककार
 
कलाप: ( मू० म० १ ) ।
 
-
 
विचार : - १ विपरीतोद्भावकपर विजिगीषया न्यायप्रयोगः इत्यस्मद्गुरुचरणाः
प्राहुः । यथा परार्थानुमानस्थले पर्वतो वह्निमान् धूमवत्त्वात् इत्यादि ।
अत्र च पर्वते वहौ साधनीये प्रतिवादिना पर्वतो न वह्निमान् इत्यादि-
विपरीतवाक्ये प्रयुक्ते मध्यस्थस्य संशयो जन्यते । तन्निवृत्तिद्वारा प्रतिवादि-
पराभवार्थ वादिना पर्वतो वह्निमान् इत्यादिप्रतिज्ञा घटितवाक्यप्रयोगरूप-
विचारः क्रियते इति विज्ञेयम् । २ तत्त्वनिर्णयः । ३ संदिग्धे वस्तुनि
प्रमाणेन तत्त्वपरीक्षायां तदनुगुणो वाक्यसमूहो विचारः ।
 
७५०
 
-
 
-
 
विचिकित्सा – ( दोषः ) संशयशब्दवदस्यार्थोनुसंधेयः ( अमरः १ ) ।
विच्छिन्न त्वम् – बलवता क्लेशेनाभिभवः ( सर्व० सं० पृ० ३५९ पात ) ।
विजयः – ईषत्संध्यामतिक्रान्तः किंचिदुद्भिन्नतारकः । विजयो नाम कालोयं
सर्वकार्यार्थसाधकः ॥ (पु० चि० पृ० १४८ ) ।
 
-