2023-02-20 00:56:40 by ambuda-bot
This page has not been fully proofread.
न्यायकोशः ।
विक्रीयासंप्रदानम् - विक्रीय पण्यं मूल्येन ॠतुर्यन्न प्रदीयते । विक्रीया-
संप्रदानं तद्विवादपदमुच्यते ॥ ( मिताक्षरा अ० २१ २५४ ) ।
विक्लित्तिः -तेजःसंयोगादिना जायमानोवयवविभागविशेषः । यथा तण्डुलं.
पचतीत्यादौ फलीभूतो धात्वर्थस्तण्डुलाद्यवयव विभागप्रभेदः ( श० प्र०
श्लो० ७१ टी० पृ० ८९ ) । शाब्दिकास्तु जलतेजःसंयोगाभ्यां
जायमानमवयवशैथिल्यम् । तच्च पूर्वारम्भकसंयोगनाशानन्तरशिथिल-
संयोगापत्तिः इत्याहुः (वाच० ) ।
—
विक्षिप्तम् – ( चित्तम् ) क्षिप्ताद्विशिष्टं चित्तं विक्षिप्तमिति गीयते ( सर्व०
सं० पृ० ३५४ - ३५५ पात ० ) ।
-
विक्षेपः - १ ( निग्रहस्थानम् ) [ क ] कार्यव्यासङ्गात्कथाविच्छेदो विक्षेपः
( गौ० ५/२/१९ ) । यत्र कर्तव्यं व्यासज्य कथां व्यवच्छिनति इदं मे
करणीयं विद्यते तस्मिन्नवसिते कथयिष्यामि इति । विक्षेपो नाम निग्रह-
स्थानम् । एकनिग्रहावसानायां कथायां स्वयमेव कथान्तरं प्रतिपद्यते
( वात्स्या० ५/२/१९) इति । एतत्सूत्रं विवर्तयामास । कार्यव्यासङ्गात्
कार्यव्यासङ्गमुद्भाव्येत्यर्थः । त्यब्लोपे पञ्चमी । कार्यव्यासङ्गश्वासंभवत्काला-
न्तरकत्वेनारोपितः । तेन तादृशकथाविच्छेदो विक्षेपः । तेन राजपुरुषा-
दिभिराकारणे गृहजनादिभिर्वा आवश्यक कार्यार्थमाकारणे स्वगृहदाहादिकं
पश्यतो गमने वा शिरोरोगादिना प्रतिबन्धे वा न विक्षेपः । कार्य-
व्यासङ्गोद्भावनं चोत्तरावसराभावात् । वस्तुतस्तु उत्तरस्फूर्तावपि तद्दूषण-
संभावनया विक्षेपसंभवः । यथा क्षितिः सकर्तृका कार्यत्वात् इत्युक्तम् ।
अत्राङ्कुरे व्यभिचारस्तावन्मयोद्भाव्यः । तत्र चेदयं पक्षसमत्वं ब्रूयात् तदा
मे किमुत्तरम् । अतोत्र महार्णवलिखितं मया च विचारितं किंचित्कार्य-
मुद्भाव्य गृहे गत्वा दृश्यते इत्येवं विक्षेपसंभवात् ( गौ० वृ० ५ ।२।१९) ।
[ख] असंभवत्कालान्तरकत्वेनारोपितं कार्यव्यासङ्गमुद्भाव्य कथाविच्छेदः
( गौ० वृ० ५/२/१९ ) ( नील० पृ० ४६ ) ( दि० १ ) । [ग]
कथामभ्युपगम्यैव तद्विच्छेदाय कस्यचित् । व्याजस्य वचने प्राडुर्विक्षेपं
निग्रहग्रहम् ॥ (ता० २० परि० ३ ० १४७ ) । सदर्थश्च कथा-