This page has not been fully proofread.

न्यायकोशः ।
 
मात्रपक्षको हेतुः (त० कौ० १४) । यथा सर्वे नित्यं प्रमेयत्वादित्यादि
( गौ० वृ० १ / २/५ ) ( त० कौ० १४) । [ष ] अन्वयव्यतिरेकदृष्टा-
न्तरहितो हेतुः । यथा सर्वमनित्यं प्रमेयत्वादिति ( त० सं० ) । इदं
लक्षणचतुष्टयं प्राचीनमताभिप्रायेण । भत्र च साध्यसंदेहाद्व्याप्तिग्रहो न
भवतीत्याशयः ( गौ० ० १ २/५) । सर्वमनित्यं प्रमेयत्वादित्यत्र सर्व-
स्यैव पक्षत्वात् दृष्टान्तो नास्तीति प्रमेयत्वं हेतुरनुपसंहारी । एतज्ज्ञानं
च व्याप्तिग्रहे प्रतिबन्धकम् । तथा हि । सर्वस्य पक्षत्वे व्याप्तिग्राहक-
सहचारदर्शन स्थलाभावेन सहचारनिश्चयाभावे सति व्याप्तेरनिश्वयादिति
( त० कौ० ) । हेतावनुपसंहारित्वज्ञानदशायां हेतुसाध्ययोः सामाना-
घिकरण्यनिश्चयासंभवेन पक्षान्तर्भावेन च साध्यसंशय सस्तेन व्याप्तिसंशय-
संभवादिति ( नील० २।२७) । [ ] केवलान्वयिधर्मसाध्यको हेतुः ।
सच अत्यन्ताभावाप्रतियोगिताध्यकादिः (मु० १६८ ) । यथा घटो-
भिधेयः पटत्वादित्यादौ पटत्वं हेतुरनुपसंहारी इदं च नवीनमतम् ।
तस्य चात्यन्ताभावाप्रतियोगि साध्य कत्वरूपस्य ज्ञानाद्व्यतिरेकव्याप्तिग्रह-
प्रतिबन्धो दूधकताबीजम् ।
 
-
 
-
 
अनुबन्धः – १ इच्छा पूर्व कदोपविशेषाम्यासः । यथा अनुबन्धादिकं
सर्व कार्य यथाक्रमम् इत्यादौ । २ विषयप्रयोजनाधिकारिसंबन्धा एत
चतुष्टयमिति वेदान्तिनः । ३ वातपित्तादिदोषाणाम प्राधान्यमिति मिषजः ।
४ प्रकृतिप्रत्ययागमादेशानां विकरणागमगुणवृदयादिकार्यविशेषार्थमनुब-
न्धनीय: परिनिष्पन्नपदकालेषु अश्रूयमाणतया नश्वरः इत्संज्ञतया कृत-
लोपो वर्ण इति शाब्दिकाः । ५ फलसाधनं पुनः पुनरनुष्ठानाभ्यास इति
धर्मशास्त्रविदः । ६ बन्ध इति कोशकाराः । ७ आरम्भ इति केचिदाडुः
( वाच० ) ।
 
अनुभव: - (बुद्धिः ) १ [ क ] स्मृतिभित्रं ज्ञानम् (व० सं० )
(त० मा० २ ) ( न्या० म० १ । २ ) ( त० कौं० ६ ) । यथा अयं
घटः इति चाक्षुषप्रत्यक्षमनुभवः । [ ख ] अनुभवामि इत्यनुगत प्रती-
ति सिद्धानुभवत्व जातिमान् (न्या० म० १।२ ) ( त० को० ६ ) । स