This page has not been fully proofread.

तृतीयावृत्तावुपोद्धातः
 

 
शास्त्रान्तर्गताः प्रत्यहं समुपयुज्यमाना ग्रन्थेषु च समुपलभ्यमानाः परिभाषा:
संज्ञाव जिह्वाम एवावर्तन्तेति न तदानीं स्वल्पमपि प्रयोजनमासीन्यायशा-
स्त्रविषये कोशादिग्रन्थनिर्माणस्य । न्यायशास्त्रपारदृश्वनामधीतसाङ्गसशि-
रस्कन्यायवैशेषिकदर्शनग्रन्थानां जिह्वाग्रसमुपस्थितप्रधान ग्रन्थशास्त्रार्थविष-
याणां प्रतिक्षणक्रियमाणगहन विषयविभावनासंजनितशेमुपी संस्काराणां नैया-
यिक पण्डितप्रकाण्डानां न काचिदण्यावश्यकतासीन्यायशास्त्रविषये कोशप्र-
न्थावलोकनस्य कोशग्रन्थविरचनस्य वा । अपरं च न कस्यापि विषयस्य
न वा कस्यापि वर्णनस्य कोशग्रन्थेषु प्रतिभापरिप्लुतो नवीनतयोपन्यासः
कर्तुं पार्यत इति नूनमनादर एवासीत्प्राचीनानां पण्डितानां कोशरचनकर्मणि
चर्वितस्यैव पुनश्चर्वणप्रणयिनि । इदानींतनास्तु शास्त्राध्येतारः स्वयमधीय
मानशास्त्रगतानपि न सर्वान्प्रमाणभूतान्ग्रन्थान्साकल्येनाधीयाना दृश्यन्ते,
दूरत एव वार्तेतरशास्त्रगतानां प्रमुखग्रन्थानामध्ययनस्य । अनधीय प्रमाण-
भूतान्पञ्चषानपि शास्त्रग्रन्धानधुना त्वरिताः शास्त्रपण्डिता भवन्ति ये स्वयम
धीताना मल्पसंख्याकानां ग्रन्थानामध्ययनमपि न सर्वाङ्गीणतया कुर्वन्ति न
पङ्क्तिशः पाठान्गृह्णन्ति न च मुखप्रोक्तं ग्रन्थं कुर्वन्ति । सर्वथाध्ययनार्थ
स्वीकृतस्यापि शास्त्रस्य ग्रन्थेषु सम्यगुपस्थितिरहिताना मितरशास्त्रेवालोडनं
चिकीर्षूणामिदानींतनानामध्यापकानामध्येतॄणां च सम्यम्प्रन्धानुपस्थितौ तेषु
तेषु स्थलेषु परिदृश्यमानानां शास्त्रीयपरिभाषाणां संज्ञानां च सम्यगवबोधाय
मुहुर्मुहुः कोशदर्शनावलम्ब एव कर्तव्यतयापतति । यथा यथा ग्रन्थोपस्थि-
तिराहित्यं विवर्धते तथा तथा न केवलं कोशादिग्रन्थावलोकनं प्रत्पनन्यग-
तिकतयाधिकाधिका प्रवृत्तिर्भवति किं तु कोशसदृशग्रन्थराहित्ये स्वाभीप्सि-
तग्रन्थाध्ययनकर्मण्यमीषां संचारो दृगन्धानामिव भवति राजवर्त्मनीति यदि
ब्रूमस्तर्हि तत्र नातिशयोक्तिलेशस्याप्यवकाशः ॥
 
-
 
३ सागरवदतिगभीरेषु तेषु तेषु शास्त्रेष्वत्रगाहनां कृत्वा तत्तच्छास्त्रग-
तानां बहुविधानां विषयाणां सूक्ष्मार्थानां च सम्यगाकळनं कृतवतां पण्डि-
तानामिदानीतने काले प्रतिदिनं परिजायमानं दौर्लम्यं समीक्षमाणा मन्यामहे
यथा — " देवीं वाचमुपासते हि बहवः सारं तु सारस्वतं जानीते नितरा-
-