This page has not been fully proofread.

७४६
 
न्यायकोशः ।
 
त्त्वम् । घटं करोतीत्यादिनिर्वर्से क्रियानिर्वाह्योत्पत्तिमत्यपि प्रकृतिविकृति-
भावाभानान्नातिप्रसङ्गः । किंच प्रकृतिकर्मणः काष्ठादे: तादृशविशिष्टा-
सत्त्वत्वत्त्वात् विकृतिकर्मणश्च भस्मादेः तादृशोत्पत्त्याश्रयत्वालक्षणसंगतिः ।
सुवर्ण कुण्डलं करोतीत्यादौ सुवर्णस्य पूर्व रूपविशिष्टासत्त्वफलवत्त्वात्
कुण्डलस्य चोत्पत्तिमत्त्वादुभयोरपि विकार्यत्वम् । तदुक्तं भर्तृहरिणा यद-
सज्जायते सद्वा जन्मना यत्प्रकाश्यते । प्रकृतेस्तु विवक्षायां विकार्ये
कैश्चिदन्यथा ॥ इति । प्रकृतिकर्मत्वं च धात्वर्थव्यापारनिर्वाह्याभावप्रति-
योगितावच्छेदकधर्मवत्वम् । काशान् कटं करोति कुसुमानि स्रजं करोति
सुवर्णं कुण्डलं करोति मृदं घटं करोति काष्ठं भस्म करोति तण्डुलानोदनं
पचतीत्यादौ धात्वर्थव्यापारनिर्वाह्यो यः पूर्वभाव विशिष्टकाष्ठकाशादिप्रति-
योगिकः अभावो विशिंष्टासत्वरूपः तत्प्रतियोगितावच्छेदकवैशिष्ट्यवस्वं
काशकाष्ठादेः इति तत्प्रकृतौ लक्षणसंगतिः । अत्रेदं बोध्यम् । काष्ठं
भस्मेत्यत्र करोतेर्नाश उत्पत्तिश्च फलद्वयम् तदनुकूलव्यापारश्चार्थः । नाशे
प्रतियोगितया काष्ठस्य उत्पत्तौ भस्मन आधेयतयान्वयः । काष्ठप्रतियोगिक-
नाशानुकूलो भस्मोत्पादको वर्तमानो व्यापारः इति वैयाकरणमते बोधः ।
नैयायिकमते तण्डुलानोदनं पचतीत्यादौ प्रकृतिकर्मबोधकतण्डुलपदोत्तर-
द्वितीयाया नाशकत्वमर्थः । विकृतिकर्मबोध कौदनपदोत्तरद्वितीयायाश्चोत्पा-
दकत्वमर्थः । तण्डुलाद्यन्वितं नाशकत्वं च पाकेन्वेति । ओदनाद्यन्वितो.
त्पादकत्वस्य नाशकत्व विशिष्टे पाकेन्वयः । तथा च तण्डुलनाशक
ओदनोत्पादको यो व्यापारः तदनुकूलकृतिमान् इति बोधः । एवम् काष्ठं
भस्म करोतीत्यादावप्यूह्यम् ( वै० सा० द० सुब० कार० २ ) । इदं च
बोध्यम् । भस्म करोतीत्यादौ यदा भस्मप्रकृतिभूतकाष्ठादिसमवधानं
नास्ति तदा भस्मादिरूपं विकृतिकर्म निर्वयम् इत्युच्यते । यदा च तत्स-
मवधानमस्ति तदा तदेव विकृतिरूपं कर्म विकार्यम् इत्युच्यते इति ।
विकृतिः - १ विकारः । २ विकार्यम् । ३ मीमांसकास्तु यत्र न सर्वाङ्गो-
पदेशः सा विकृतिः । यथा सौर्यादिः इष्टिः । तत्र कतिपयाङ्गानामति-
देशेन प्राप्तत्वात् इत्याहुः । अतिदेशेनेत्यस्यार्थस्तु प्रकृतिवद्विकृतिः कर्तव्या
 
-
 
PACK