This page has not been fully proofread.

न्यायकोशः ।
 
सू० ७७) इत्यादिना इकारादेर्विकारो यकारादिः इति । परे तु इकारे
प्रयोक्तव्ये यकारः प्रयोक्तव्यः इत्यादेशमादिशन्ति (गौ० वृ० २।२।४० ) ।
३ यास्कोक्ता भावविकाराः षट् । जायते अस्ति विपरिणमते वर्धते अप-
क्षीयते विनश्यति इति षड् भावविकारा भवन्तीति वार्ष्यायणिः ।
 
विकार्यम् - ( विकृतिरूपं कर्म ) [ क ] क्रियानिष्पाद्यं यत्तत् । यथा तण्डु-
- ]
लानोदनं पचति कुसुमानि स्रजं करोति काशान्कटं करोतीत्यादौ प्रकृति-
भूततण्डुलकुसुमकाशादिपदसमभिव्याहारे ओदनस्रगादि विकार्यरूपं कर्म
भवति । अत्र विकार्यपदेन एकव्युत्पत्त्या प्रकृतिविकृत्युभयाबोधनेपि उभय-
साधारणरूपावच्छिन्ने पारिभाषिकमेव विकार्यपदम् । अत्रेदं बोध्यम् ।
ओदनस्रगादेर्यदा कर्मत्वम् तदा तत्प्रकृतिभूततण्डुलकुसुमादीनामपि
कर्मत्वं बोध्यते । प्रकृतिविकृतिभावस्थले कर्माख्यातेन प्रकृतेः कर्मत्वमेव
प्रत्याय्यते । अतः काष्ठानि भस्मराशिः क्रियन्ते इति प्रयोग उपपद्यते ।
अत्र भस्मादिनिर्वर्सकर्मताया लकारेणानभिधानेपि तत्कर्मताया धात्वर्थे
संसर्गतया भानोपगमेन तादृशकर्मोत्तरं प्रथमाया: साधुता । प्रातिपदि-
कार्थविशेष्यतया कर्मत्वादिविवक्षायामेव द्वितीया दिविभक्तिसाधुत्वात् (ग०
व्यु० का० २ पृ० ६७ ) इति । [ ख ] यलक्ष्यं तन्नाशकमेवा-
वस्थान्तरमापद्यते तत् । यथा काष्ठं भस्म करोति सुवर्णे कुण्डलं करो-
तीत्यादौ काष्ठादि । अत्र काष्ठा दिपदलक्ष्यस्य काष्ठावयवादे: स्वनाशक-
भस्मादिरूपावस्थान्तरप्राप्तेर्लक्षणसमन्वयः । ओदनं पचतीत्यादौ ओदन-
पदलक्ष्य ओदनावयवः । पच्यर्थो रूपादिपरावृत्त्यवच्छिन्नस्तेजः संयोगः ।
तथा च धात्वर्थजन्यफलशालित्वात् सत्तोवस्थान्तर प्राप्तेश्चोभयविध कर्मत्व-
मोदनावयवस्येष्टम् ( का० व्या० पृ० ६ ) । [ग] शाब्दिकास्तु प्रकृति-
विवक्षायां निष्पाद्यम् । काष्ठं भस्म करोतीत्यादौ असत्या एव काष्ठादि-
रूपप्रकृतेः परिणामित्वेन विवक्षास्ति इत्याहुः । तदुक्तमविकार्ये तु
द्वेधा कर्म व्यवस्थितम् । प्रकृत्युच्छेदसंभूतं किंचित्काष्ठादिभस्मवत् ।
किंचिद्गुणान्तरोत्पत्त्या सुवर्णादिविकारवत् । तल्लक्षणं तु प्रतीयमानप्रकृति-
विकृतिभावकत्वे सति क्रियानिर्वाह्यविशिष्टासत्व उत्पत्ति एतदन्यतरफलव-
९४ न्या० को●