This page has not been fully proofread.

न्यायकोशः ।
 
उपलक्षणं चैतत् अन्यवृत्तिधर्मस्यापि बोध्यम् । व्यभिचारोपि हेतोर्धर्मा
न्तरं प्रति धर्मान्तरस्य साध्यं प्रति धर्मान्तरस्य धर्मान्तरं प्रति व
( गौ० वृ० ५/११४ ) । [ ख ] कस्यचिद्धर्मस्य कचिद्व्यभिचार
दर्शनेन धर्मत्वाविशेषाव्यकृतहेतोः प्रकृतसाध्यं प्रति व्यभिचारापाद
नम् । यथा शब्दः अनित्यः कृतकत्वादित्यत्र कृतकत्वस्य गुरुत्वव्यमि
चारदर्शनात् गुरुत्वस्यानित्यत्व व्यभिचारदर्शनात् नित्यत्वस्य मूर्तत्वव्यभि
चारदर्शनात् धर्मत्वाविशेषात्कृतकत्वमप्यनित्यत्वं व्यभिचरेदिति (गौ० वृ॰
५१११४) । तथा चोक्तम् धर्मस्यैकस्य केनापि धर्मेण व्यभिचारतः
हेतोः साध्याभिचारोक्तौ विकल्पसमजातिता ॥ ( ता० २० परि० :
श्लो०
० १०९ ) इति । [ग] दृष्टान्तविकल्पं प्रदर्श्य दान्तिकविकल्प
कथनम् ( नील० पृ० ४३ ) । भत्र शिष्टमुदाहरणादिकं तु भाष्य
तुल्यमेव नीलकण्ठ्यां प्रतिपादितम् इति तन्नात्र संगृहीतम् इति विज्ञेयम्
अनैकान्तिक देशनाभासोयम् ( गौ० ० ५१११४ ) ।
 
-
 
विकारः – १ [क] स्वरूपस्य विनाशे अविनाशे वा द्रव्यान्तरारम्भकत्वम्
यथा दुग्धादेर्दध्यारम्भकत्वम् बीजादेवृक्षाद्यारम्भकत्वं च । सुवर्णादे
लोहाघातजन्यावयवसंयोगनाशादवयविनो नाशे सत्येव कुण्डलारम्भः
कपालादेश्च स्वरूपाविनाशेन घटाद्यारम्भकत्वम् (गौ० वृ० २ । २।४०)
सांख्यैश्च पञ्चविंशतितत्त्वमध्ये षोडशपदार्था विकारशब्देनोक्ताः । तदुक्त
षोडशकस्तु विकार इति । अस्यार्थः षोडशसंख्यावच्छिन्नो गण
षोडशको विकारः एवेति ( सर्व० सं० १० ३१८ साङ्ख्य० )
[ख] प्रकृतेरन्यरूपः परिणाम: ( वाच० ) । अयं विकारधर्मो द्रव
सामान्ये । यदात्मकं द्रव्यं मृद्वा सुवर्णे वा तस्यात्मनोन्वये पूर्वो व्यूहो निव
र्तते व्यूहान्तरं चोपजायते तं विकारमाचक्षते (वात्स्या० २/२/४५ )
अत्राधिकं च कर्मशब्दव्याख्याने दृश्यम् । [ग] अन्ये तु स्वरूप
परित्यागेन रूपान्तरापत्तिः ( गौ० ० २।२।५२ ) इत्याहुः । २ वण्
विकारस्तु गुणान्तरापच्युपमर्दहास वृद्धिलेश श्लेषेभ्य: ० ( गौ० २१२/५६
इति सूत्रे उक्तः । अत्र केचिदाहुः इको यणचि ( पाणि० अ०६ पा०