2023-02-20 00:56:38 by ambuda-bot
This page has not been fully proofread.
न्यायकोशः ।
न्तयोर्धर्मविकल्पात् (गौ० ५११४) इत्यादौ । ३ विभ्यम् । यथा
बिकल्पसमा जाति: इत्यादौ ( गौ० १०५/११४ ) । ४ विभिन्नः कल्पः ।
५ विविधः कल्पः । ६ पक्षान्तरबोधकः शब्दः । यथा वीहिभिर्वा यवैर्वा
यजेत इत्यादिः । विकल्पो द्विविधः व्यवस्थितः ऐच्छिकश्च । सोप्या-
युक्तः । तथा च भविष्ये स्मृतिशास्त्रे विकल्पस्तु आकाङ्क्षा-
पूरणे सति इति । इच्छाविकल्पेष्टौ दोषा यथा प्रमाणत्याप्रमाणत्वपरित्याग-
प्रकल्पने । प्रत्युज्जीवनहानिभ्यां प्रत्येकमष्टदोषता ॥ इति । ब्रीहिमिर्यजेत
यवैर्यजेत इति श्रुतिः । तत्र व्रीहिप्रयोगे प्रतीतयवप्रामाण्यपरित्यागः
अप्रतीतयवाप्रामाण्यपरिकल्पनम् । प्रयोगान्तरे यव उपादीयमाने परित्यक्त-
यवप्रामाण्योज्जीवनम् स्वीकृतयवाप्रामाण्यहानिरिति चत्वारो दोषाः । एवं
श्रीहाबपि चत्वारः इत्यष्टौ दोषा इच्छाविकल्पे । व्यवस्थितविकल्पस्तु
उपोष्य द्वे तिथी इति । अत्र अष्टदोषभिया नेच्छाविकस्पः । किं तु
व्यवस्थितविकल्प एव इति विज्ञेयम् ( वाच ० ) । ७ योगशास्त्रज्ञास्तु
चित्तवृत्तिविशेषः । यथा शब्दज्ञानानुपाती वस्तुशून्यो विकल्पः (पात ०
सू० पा० १ सू० ९ ) इत्यादौ इत्याहुः । ८ भ्रान्तिः । ९ पक्षतः
प्राप्तिश्च । १० कल्पनम् ( मेदि० ) ( वाच० ) ।
विकल्पसमः - ( जाति: ) [क] साधनधर्मयुक्ते दृष्टान्ते धर्मान्तरविकल्पा-
साध्यधर्म विकल्पं प्रसजतो विकल्पसमः । यथा आत्मा सक्रिय: किया-
हेतुगुणवत्त्वाल्लोष्टवत् इत्यादौ । क्रियाहेतुगुणयुक्तं किंचिद्गुरु । यथा
लोष्ट: । किंचिलघु । यथा वायुः । एवं क्रियाहेतुगुणयुक्तं किंचित्क्रिया-
वत्स्याद्यथा लोष्ट: । किंचिदक्रियं यथा आत्मा । विशेषो वा वाच्य
इति ( वात्स्या ० ५॥१॥४ ) । क्रियाहेतुगुणश्चात्र क्रियाजनक-
वायुसंयोगादिरेव ( नील० १० ४३ ) । विशेषो वाच्य इत्यस्या-
यमर्थः पूर्वविकल्पो भवति अयं तु न भवति इत्यत्र किं नियामकं स्यात्
( नील० पृ० ४३) इति । अत्र सूत्रभागः साभ्यदृष्टान्तयोर्धर्मविकल्पा-
दुभयसाध्यत्वाच्च विकल्पसम: ( गौ० ५/१४ ) इति । तदर्थस्तु पक्षे
दृष्टान्ते च यो धर्मस्तस्य विकल्पो विरुद्धः कल्पो व्यभिचारित्वम् ।