This page has not been fully proofread.

न्यायकोचः ।
 
७४१
 
निवृत्त्यनुकूलव्यापारो वारणम् । यथा परस्वेभ्यः पाणि निवारयतीत्यत्र
निवारणम् । अत्र धात्वर्थघटकनिवृत्तौ पाण्यादेरवच्छेदकत्वेन परस्खादेव
प्रकारत्वेनान्वयः । तादृशव्यापारः कराकुञ्जना दिरेव ( श० प्र० श्लो० ६८
पृ० ८३ ) । कचिच्च संयोगाभावनिष्ठस्य प्रयोजकव्यापारः । यथा
स्वानाद्वाणं वारयतीत्यादौ वारयत्यर्थो वारणम् । अत्र धात्वर्थघटके
संयोगे द्वितीयान्तलम्यस्य बाणप्रतियोगिकत्वस्य संयोगाभावनिष्ठे च
पञ्चम्यन्तलभ्यस्य स्वाङ्गवृत्तित्वस्यान्वयः । कार्याभाव इव तन्निष्ठेधिकरण-
विशेषवृत्तित्वेपि प्रतिबन्धकस्य प्रयोजकत्वात् । अत एव मणिः काष्ठे
दाहाभावस्य प्रयोजकः न तु पाथसि इत्यादिक: सार्वलौकिकव्यवहारः
इति । तथा च बाणसंयोगाभावनिष्ठायाः स्वानवृत्तितायाः प्रयोजक-
बाणापसरणादिरूपव्यापारानुकूलकृतिमान् इत्याकारकस्तत्र बोधः ( श०
प्र० लो० ६८ टी० पृ० ८३-८४ ) ।
 
वारुणम् – शततारका नक्षत्रम् ( पु० चि० पृ० ३५४ ) ।
 
वारुणी – चैत्रकृष्णत्रयोदश्यां शततारका नक्षत्रं चेत्सा वारुणीत्युच्यते ।
महावारुणीशब्दे दृश्यम् ।
 
d
 
वार्तिकम् - उक्तांनुक्तदुरुक्तानां चिन्ता यत्र प्रवर्तते । तं ग्रन्थं वार्तिकं प्राहु-
वर्तिकज्ञा मनीषिणः ॥ इति ( वाचस्पत्ये पराशरपु० अ० १८) ।
 
-
 
वार्षिकम् - वर्षाकाले भवं वार्षिकम् । वर्षाकालश्च श्रावणभाद्रपदमासौ
( पुरु० चि० पृ० २९६ ) ।
 
-
 
वासना – १ ( गुणः ) स्मृतिहेतुः संस्कार विशेष: ( जटा० ) । २ शक्ति-
विशिष्टचित्तोम्पादः (न्या० वा० १११११० पृ० ६९) । ३ मिथ्या-
ज्ञानजन्यो गौरोहम् इत्यादिमान सज्ञानजनको दोषविशेषः । यथा आत्मा
देहा द्यमिन्नः इति ( ग० २ हेत्वाभा० सामान्य० ) । ४ एकसंतान-
वर्तिनामालय विज्ञानानां तत्तव्प्रवृत्तिजननशक्तिः इति विज्ञानवादिनो बौद्धा
आहुः ( सर्व० पृ० ३७ बौद्ध० ) । ५ ग्रहस्पष्टीकरणाद्युपयोगी संस्कार-
विशेषः इति ज्योतिः शास्त्रज्ञा गणका आहुः । ६ ज्ञानम् । ७ प्रत्याशा