This page has not been fully proofread.

न्यायकोशः ।
 
विषप्रकारकनिवृत्तेः : अनुकूलव्यापारवान् इत्याकारकस्तत्र बोधः । अत्र
तथाविधनिवृत्त्यनुकूलव्यापारश्च स्वार्थधीद्वारा कूपे मा पत विषं मा
भुङ्क्ष्व इत्याद्यमिलापरूप: स्फुट एव ( श० प्र० श्लो० ६८ टी०
पृ० ८३ ) । अथ वा अभावानुकूलव्यापारो धात्वर्थः । पञ्चम्या वृत्तित्व-
मर्थः । तस्यान्धेन्वयः । द्वितीयाया अनुयोगित्वं प्रतियोगित्वं वार्थः ।
तस्य च धात्वर्थताव च्छेद की मृताभावेन्वयः । अभावश्च कूपादिसममि-
व्याहारात् पतनादिजन्याधःसंयोगादिसंबन्धेन । तथा च कूपवृत्त्यन्ध-
प्रतियोगिकाभावानुकूलव्यापारविषयकयत्नवान् इति वाक्यार्थः । एवम्
एतस्माद्विषा नादमुं मित्रं वारयति इत्यादाव प्यूहाः ( का० व्या० पृ० १० ) ।
[ ख ] क्रियाप्रतिषेधः । यथा यवेभ्यो गां वारयति कूपादन्धं वारय-
तीत्यादौ धात्वर्थो वारणम् (ग० व्यु० का० ५ पृ० १०७ ) । अत्र
क्रिया च भक्षणगमनादिरूपा । तस्याः प्रतिषेधस्तु कर्तृत्वाभावानुकूल-
व्यापारः । कर्तृत्वाभावरूपधात्वर्थतावच्छेदकफलशालितया गवान्धादेः
कर्मता संपद्यते । अत्र वारणार्थानामीप्सितः ( पा० सू० १ ४ । २७ )
इत्यनेनापादानत्वम् । तदर्थश्च वारणं क्रियाप्रतिषेधः । तदर्थकधातुयोगे
तत्तत्क्रियाजन्यफलभागितया तत्तत्क्रियाकर्तुरमिप्रेतः अपादानम् इति ।
यद्वा यवादिपदोत्तरपञ्चम्यर्थः यवादिगतत्वेनेच्छा विषयफलकत्वम् । तस्य
भक्षणादावन्वयः । इच्छा च क्रियाकर्तृनिष्ठा । एवं च यवकूपादिनिष्ठत्वेन
गवान्धादी च्छाविषयो यो गलाधः संयोगोत्तरदेशसंयोगादिः गवादिनिष्ठ-
तत्तत्फलकव्यापार विशेषकर्तृत्वाभावानुकूलव्यापारानुकूलक्कृतिमान् इत्या-
कारको बोध: ( ग० व्यु० का० ५ १० १०७) । मञ्जूषायां चैष-
मुक्तम् । अभावप्रतियोगिव्यापारजन्यफलाश्रयोत्रापादानम् । वारणार्था-
नाम् इति सूत्रात् । वारणार्थधात्वर्थफलाश्रयत्वमत्रेप्सितत्वम् । तेन भक्षण-
संयोगाद्याश्रयत्वाद्यवादीनामपादानत्वम् । [ग] शाब्दिकाश्च प्रवृत्ति -
विधातो वारणम् । स च संयोगाद्यनुकूलव्यापाराभावानुकूलो व्यापारः ।
यथा यवेभ्यो गां वारयति अमेर्माणवकं वारयति कूपादन्धं वारयति
इत्यादौ भक्षणसंयोगादिजनकव्यापाराभावानुकूलो व्यापारी वारयत्यर्थः
इत्याहुः ( ७० म० सुबर्थ० पृ० १०९) । कचित् आनयनधर्मिक-
980