This page has not been fully proofread.

न्यायकीशः ।
 

 
प्रति महत्त्वविशिष्टविभुव्यावृत्तविशेषगुणः महत्त्व विशिष्टोद्भूतरूपोद्भूतस्प-
शान्यतरद्वा कारणम् इति कार्यकारणभावो ज्ञेयः ( सि० च० पृ० ८ ) ।
बहिर्द्रव्य प्रत्यक्षं प्रति आत्मावृत्तिशब्दभिन्नविशेषगुणवत्त्वं प्रयोजकम् इति
वा कार्यकारणभावः । तेन वायोः प्रत्यक्षत्वमुपपद्यते । वायुं स्पृशामि
इत्यनुभवाच्च । अत्रेदमधिकं ज्ञेयम् यथा प्रभागतमेकत्वं गृह्यते तथा वायु-
गतमेकत्वमपि गृह्यत एव । कचित् सजातीयसंबलनाभावे द्वित्वपरिमाणा-
दीनि गृह्यन्ते । तद्ब्रहश्च भूयोवयवावच्छेदेन त्वगिन्द्रियसंनिकर्षस्थले
बोभ्य: । कचित् संख्या परिमाणाद्यग्रहः सजातीयसंवलनादिरूपदोषात्
इति । सजातीयसंवलनदशायाम् भूयोबयवावच्छेदेन त्वगिन्द्रियसंनि
कर्षाभावे च इत्यर्थः ( दि० १ वायुनि० पृ० ११४ ) । फूत्कारादिरूपे
चायौ संख्याधुपलभ्यत इत्यप्यत्र बोध्यम् (३० उ० २११/९ पृ० ८३ )
( त० व० ३ । ४६ ) । मीमांसका अपि वायुर्बाह्येन्द्रियप्रत्यक्ष इत्यङ्गी-
चक्रुः (प० मा० ) । तन्मते महदुद्भूतस्पर्शवद्रव्यमेव त्वचो योग्यम् न
तु केवलमुद्भूतरूपवद्रव्यम् इति कार्यकारणभावे निवेश्यमिति भावः
( म० प्र० १० ) । एतन्मते प्रभाया अप्रत्यक्षत्व इष्टापत्तिरेव शरणम्
इति मन्तव्यम् । तन्न योग्यम् । इह पक्षी नेह पक्षी इति प्रतीतेः प्रभा-
मण्डलरूप देश विषयिण्याः सर्वानुभवसिद्धायाः संभवात् ( म० प्र० १
पृ० ११ ) इति । पाश्चात्यास्तु प्राणाख्यं वायुं जलस्य समवायिकारण-
मङ्गीचक्रुः । २ उत्तर पश्चिम विदिगधिपतिर्देवताविशेषः इति पौराणिका
आहुः । ३ देहस्थधातुविशेष: इति भिषज आहुः । ४ परमात्मैव इति
वेदान्तिनः प्राहुः । वायुत्वं च त्वगिन्द्रियसमवेतले सति द्रव्यत्वसाक्षा-
द्याप्यजातिः ( सर्व० सं० पृ० २१८ औ ० ) ।
 
-
 
वारणम् - [क] क्रियाधर्मिक निवृत्त्यनुकूलव्यापारः यथा कूपादन्धं
वारयति विषाद्वालं निवारयतीत्यादौ धात्वर्थो वारणम् । क्रिया च पतन-
भोजनादिर्विशेषतो ग्राह्या । अत्र धात्वर्थघटकनिवृत्तौ पञ्चम्या कूपादि-
प्रकारकत्वम् द्वितीयया चान्धादिनिष्ठत्वं प्रत्याय्यते । तथा च अन्ध-
निक्षयाः पतनधर्मिक कृपप्रकारकनिवृत्तेः बालनिष्ठायाच भोजनधर्मिक-