2023-02-20 00:56:37 by ambuda-bot
This page has not been fully proofread.
७३८
न्यायकोशः ।
०
आहारेषु पाकार्थे बद्दे: समुन्नयनात्समानः । ऊर्ध्व नयनादुदानः ।
नाडीमुखेषु वितननायानः (प० मा० ) ( दि० ११२ पृ० ८५) इति ।
क्रियाभेदाच्चान्या अपि पञ्च संज्ञा यथा नागः कूर्मः कृकल: देवदत्तः
धनंजयः इति ( सि० च० ) (मु० १ पृ० ८५ )। तदुक्तम् उद्गारे
नाग आख्यातः कूर्म उन्मीलने स्मृतः । कृकरः क्षुत्करो ज्ञेयो देवदत्तो
विजृम्भणे ॥ न जहाति मृतं चापि सर्वव्यापी धनंजयः इति । अत्र
पुस्तकान्तरे पोषणस्य हेतुर्धनंजयः इत्युक्तम् ( सि० च० ) ।
कुकरः इत्यत्र च कृकल: इत्यपि पाठान्तरम् । वायौ नव गुणास्तिष्ठन्ति
स्पर्श: संख्या परिमाणम् पृथक्त्वम् संयोगः विभागः परत्वम् अपरत्वम्
संस्कारश्चेति ( प्रशस्त ० ) ( मा०प० ) ( त० मा० ) । स्पर्शस्त्वत्रा-
पाकजोनुष्णाशीत स्पर्शोभिप्रेतः (मु० ) ( प्रशस्त ० १०५ ) । परिमाणं
परममहस्वातिरिक्तम् । संस्कारस्तु वेगः स्थितिस्थापकोपि इति केचिदाहुः
( त० को ) । वायुर्न प्रत्यक्षः किं तु स्पर्शादिना अनुमेयः इति प्राञ्च
आहुः । तत्र युक्तिः । वायुर्यदि प्रत्यक्षः स्यात्तदा घटादिवत् तदीय-
संख्या दिसामान्यगुणोपलम्भोपि तत्र स्यात् । न चैवम् । तस्मान्न प्रत्यक्षः
इति (त० व० १/३/४५ ) । वायोरप्रत्यक्षत्वं सूत्रकारैरुक्तम् । तथा
च सूत्रम् स्पर्शश्च वायोः (वै० २१११९ ) इति । तदर्थश्च लिङ्गम् इति
शेषः । चकाराच्छब्दधृतिकम्पाः समुच्चीयन्ते । तथा च योयं स्पर्शो-
नुभूयते स कचिदाश्रितः स्पर्शत्वात् पृथिव्यादिस्पर्शवत् इति सामान्यतो
दृष्टेन स्पर्शाश्रयसिद्धी स्पर्शाश्रयो न पृथिव्यादित्रयात्मकः नीरूपत्वात्
नाकाशादिपश्चात्मकः स्पर्शवत्वात् इति इतरबाधग्रहसहकृतेन अनुमानेन
अष्टद्रव्यातिरिक्तद्रव्यसिद्धिः । एवम् शब्दधृतिकम्पा अपि वायौ लिङ्गानि
ज्ञेयानि (वै० उ० २११/९-१० पृ० ८१-८४ ) ( त० दी० )
( मु० १ ) । प्राचां मते च विषयतासंबन्धेन बहिर्दव्य प्रत्यक्षं प्रति
समवायेन महत्त्वविशिष्टोद्भूतरूपमुद्भूतस्पर्शश्च कारणम् इति कार्यका-
रणभावो ज्ञेयः (सि० च० १ पृ० ८ ) ( त० प्र० ) । एवं च कार-
णाभावात्र प्रत्यक्षम् इति बोध्यम् (मु० १ पृ० ११३ ) । नव्यास्तु
वायुः प्रत्यक्षः इत्यङ्गीचक्रुः (त० प्र० ) । एतन्मते तु बहिर्दय प्रत्यक्षं