This page has not been fully proofread.

न्यायकोचः ।
 
ग्धसाभ्यवान् । उदाहरणं च सर्वमनित्यं प्रमेयत्वादित्यादि । अत्र केव-
लान्बयी धर्मः सर्वत्वमिति बोध्यम् । एवमन्यत्रापि प्रमेयत्वामिधेयत्वादिकं
केवलान्वयी धर्म इति ज्ञेयम् । न च सर्वममिधेयं प्रमेयत्वादित्यत्राव्याप्तिः ।
विशेषादर्शनदशायां तस्यापि लक्ष्यत्वात् । अतएव तस्यानित्यदोषत्वम् ।
व्यतिरेकव्याप्तिमहप्रतिबन्धश्चास्य दूषकताबीजमिति तत्त्वम् (म०प्र० २६) ।
एतदादीनि लक्षणानि प्राचीनमतामिप्रेतानीति ज्ञेयम् । [ग] केवलान्व-
यिधर्मावच्छिन्नसाभ्यसंदेहविषयवृत्तित्वम् । [ ष ] साध्यवसानिश्चयसामा-
न्यविरोधिसंशय विषयवृत्तित्त्रमिति कश्चिदाह ( दीधि० २२०२) । [5]
केवलान्वयिधर्मव्यापकीभूतं यत्स्वप्रतिबन्धकतावच्छेदकी भूत साध्यवतानि-
वयविशेष्यतासमानाधिकरणसाव्यसंशय विषयत्वं तद्वद्वृत्तित्वम् (ग० ) ।
[ च ] किंचिद्विशेष्यकनिश्चयाविषयसाध्यकत्वे सति किंचिद्विशेष्यकनि-
वयाविषयसाध्याभावकत्वमिति प्राथो वदन्ति ( नील० २५) ।
अनुपसंहारी – ( हेत्वाभासः ) [ क ] व्याप्तिग्रहानुकूलैकधर्म्युपसंहाराभावो
यत्र स हेत्वभिमतः । स चान्वयेन व्यतिरेकेण वा सर्वस्य पक्षत्वे दृष्टान्ता-
भावात् । अनित्यो घटो घटाकाशोभय वृत्तिद्वित्वाश्रयत्वादित्यादौ च
हेतु: । अत्र साध्यसाधनसाहचयांज्ञानातस्य विरुद्धत्वाज्ञानदशायाम-
नुपसंहारित्वेनेष्टत्वात् ( चि० ९० ) । अयमनैकान्तिकप्रभेद इति
विज्ञेयम् । अनुपसंहारिणो लक्षणं तु पूर्वोक्तानुपसंहारित्वमेव । तद्वे-
तुकतत्साध्यकसाभ्यसिद्ध्यौपयि कव्याप्तिमहानुकूलोपसंहारा भावस्तस्यानुप-
संहारित्वमित्यर्थो लभ्यते ( दीवि० २१२००-२०१) । [ख] केव-
धर्मावच्छिन्नपक्षको हेतुः (चि० २१९० ) ( मा०प० ७५ )
( गौ० वृ० ११२/५ ) । अत्र पक्ष इत्यस्य साध्यनिश्चयविरोधिनः साध्य-
बाल वा इत्यादेः संदेहस्य विषय इत्यर्थः ( दीधि ० २/२०१) ।
सर्वममिधेयं प्रमेयत्वादिति सद्धेतौ न केवलान्वयी पक्षतावच्छेदको वा ।
निश्चितसाध्यषद् त्तित्वात् । विप्रतिपस्या साध्यानिश्चयदशायां पक्षत्वे तद-
नुपसंहार्येव । व्यतिरेकिसाध्यके साध्याभावबद्वृत्तित्वाज्ञानदशायामिदं दूष-
णम् । तदवगमेपि साधारणसंकर एव ( चि० २१९० ) । [ग] वस्तु-