This page has not been fully proofread.

न्यायकोशः ।
 
७३७
 
स्यापि नानात्वं संमूर्छनेनानुमीयते । अत्र सूत्रम् वायोर्वायुसंमूर्छनं नानात्व-
लिङ्गम् (वै० २ । १ । १४ ) इति । संमूर्छनं पुनः समानजवयोर्वाय्वोर्विरुद्ध-
दिक्क्रिययोः संनिपातः । सोपि संनिपातः सावयविनोर्वाय्वोरूर्ध्वगम-
नेनानुमीयते । तच्च वाय्वोरूर्ध्वगमनम् प्रत्यक्षेण तृणादिगमनेन अनु-
मीयते ( प्रशस्त • वायुनि० पृ० ५) (वै० उ० २११ । १४ ) इति ।
अत्र भाष्यकारा आहुः । कार्यलक्षणः अनित्यो वायुः चतुर्विधः शरीरम्
इन्द्रियम् विषयः प्राणः इति । तत्र ( १ ) अयोनिजमेव शरीरं मरुतां
लोके । पार्थिवावयवोपष्टम्भाञ्चोपभोगसमर्थम् । (२) इन्द्रियं सर्वप्राणिनां
स्पर्शोपलम्भकं पृथिव्याद्यनभिभूतैर्वाय्ववयवैरारब्धं सर्वशरीरव्यापि त्वक् ।
(३) विषयस्तूपलभ्यमान स्पर्शाधिष्ठानभूतः स्पर्शशब्दधृतिकम्पलिङ्गः
तिर्यग्गमनस्वभावकः मेघादिप्रेरणधारणा दिसमर्थः । ( ४ ) प्राणोन्तःशरीरे
रसमलधातूनां प्रेरणादिहेतुः एकः सन् क्रियाभेदादिभिरपानादिसंज्ञां
लभते ( प्रशस्त० पृ० ५ ) ( प० मा० ) इति । नव्यास्त्वित्थं वदन्ति ।
अनित्यस्त्रिविधः शरीरम् इन्द्रियम् विषयश्च । तत्र शरीरम् वायुलोके
प्रसिद्धम् । पिशाचादीनामपि वायुशरीरम् अयोनिजं च ( मु० १
वायुनि० पृ० ८४ ) ( त० कौ० ) । अत्रेदमवधेयम् । एतच्छरीरस्य
पार्थिवभागोपष्टम्भादुपभोगक्षमत्वम् । तेन वायोस्ताल्वादिव्यापाराभावात्
करचरणाद्यभावेन चाहरणविहरणाद्यभावात् कथं तादृशशरीरस्य भोगा-
यतनत्वम् इत्याशङ्कानवकाश: ( दि० १ पृ० ८४ ) (प० मा० ) इति ।
इन्द्रियं स्पर्शग्राहकं पृथिव्याद्यनभिभूतैर्वाय्ववयवैरारब्धं त्वक् सर्वशरीर-
वृत्ति । विषयो वृक्षादिकम्पनहेतु उपलभ्यमानस्पर्शाश्रयो महावाय्वादिः
( भा०प० श्लो० ४५ ) ( त० सं० ) । प्राणोपि विषयो वायुः ।
सोन्तः शरीरे रसमलधातुपित्तकफादीनां प्रेरणधारणादिहेतुः । स चैकोपि
हृदादिस्थानरूपोपाधिभेदात् मुखनिर्गमादिक्रियाभेदाच पञ्च संज्ञा लभते ।
तत्र स्थानभेदाद्यथा प्राणोपानो व्यान उदानः समानः इति । तदुक्तम्
हृदि प्राणो गुदेपानः समानो नाभिसंस्थितः । उदानः कण्ठदेशस्थो
व्यानः सर्वशरीरगः ॥ ( अमर० १।६७ टी० ) इति । तथा
मुखनासिकाभ्यां निष्क्रमणप्रवेशनात्प्राणः । मलादीनामधो नयनादपानः ।
९३ न्या० को●