2023-02-20 00:56:36 by ambuda-bot
This page has not been fully proofread.
न्यायकोशः ।
भरितपञ्चावयबोपेतं न्यायवाक्यं प्रयुद्धे इति । [ख] प्रथमपक्षप्रति-
पादकोर्थी इति व्यबहारशास्त्रज्ञा आहुः । २ वादकथाकर्ता । ३ विचार-
स्पलम् ( वाच० )।
बाप - उदकमिश्रणाय पिष्टस्य पात्रे प्रक्षेपः ( जै० न्या० अ० १०
पा० १ अधि० ११) ।
वायवी – ( दिक् ) सुमेरुसंनिहिता उदयगिरिव्यवहिता च उत्तरपश्चिमा
दिकू (वै० वि० २१२ १० १० ११६) । यथा झळकीप्रामतो
वायव्य मुम्बापुरी ।
वायु : – १ (द्रव्यम् ) [क] वायुत्वसामान्यवान् (त० कौ०) ( प्रशस्त ० ) ।
वायुश्च पञ्चमहाभूतान्तर्गतः । [ख] रूपरहितः स्पर्शवान् । अत्र
सूत्रम् स्पर्शवान् वायुः ( वै० २।१।४ ) इति । तल्लक्षणं च स्पर्शेतर-
विशेषगुणासमानाधिकरण विशेषगुणसमानाधिकरणजातिमत्त्वम् ( वै०
उ० २।१।४ ) । अथवा रूपाभावे सति स्पर्शवत्वम् (वाक्य० ११४ ) ।
समवायेन रूपवदवृत्तिस्पर्शवतत्त्वमित्यर्थः ( ल० व० ) । अथ वा पाकज-
स्पर्शवदवृत्त्यनुष्णाशीत स्पर्शवद्वृत्तिद्रव्यत्वसाक्षायाप्यजातिमत्त्वम् ( दि० १
पृ० ८३ ) । अत्र पृथिवीत्ववारणायावृत्त्यन्तम् । जलत्ववारणाय वृश्य-
न्तम् ( राम० १ वायुनि० पृ० ८३ ) । अथ वा त्वगिन्द्रिय समवेत-
द्रव्यत्वसाक्षाद्व्याप्यजातिमत्त्वम् ( सर्व० पृ० २१८ औलू ० ) । तादृशी
जातिश्च वायुत्वम् । वायोरस्तित्वे प्रमाणमाह यद्यपि वायुरतीन्द्रियस्तथापि
विलक्षणशब्दात्मक कार्यान्यथानुपपस्या स स्वीकरणीयः इति ( प्र० प्र० ) ।
बायोरप्रत्यक्षत्ववादिमते वायुसिद्धिर्यथा ग्राह्यजातीयविशेषगुणवत्त्वेन स्पर्श-
वत्त्वाद्रव्यान्तरप्रसक्तित्वेन वायुसिद्धिः ( न्या० ली० पृ० ९) इति ।
योयं वायौ याति सति अनुष्णाशीतः स्पर्शः प्रतीयते स स्पर्शः कचिदा-
श्रितः गुणत्वाद्रूपवत् इत्यनुमानेन किंचिदाश्रितत्वे साधिते यत् किंचित्-
पदग्राह्यं तदेव वायुः इत्युच्यते ( त० दी० ) ( सि० च० वायुनि०
पृ० ८ ) । स चायं वायुर्द्विविधः नित्यः अनित्यश्च । तत्र नित्यः पर-
माणुलक्षणः । अनित्यः कार्यलक्षणः नाना च । तस्य बायोः अप्रत्यक्ष-
-