This page has not been fully proofread.

न्यायकोशः ।
 
तन्मते कारणमेव कार्यरूपेण परिणमते इति कार्यकारणयोरनन्यत्वम्
सत्यत्वं च । यथा दुग्धं सदेव दधिरूपेण परिणमते इति दधि कार्या-
न्तरं दुग्धाद्भिन्नं च न भवति इति । विवर्तवादो मायावादिवेदान्तिनाम् ।
तन्मते कारणमेव कार्यस्वरूपेण भासते इति कारणस्यैव सत्यत्वम् न तु
कार्यस्य सत्यत्वम् । यथा शंकरभारतीमते शुक्तौ इदं रजतम् इति ज्ञाना-
नन्तरमधिष्ठानभूतशुक्तिज्ञाने जाते बाधज्ञानेन पूर्वे ज्ञातं रजतं यथा
निवर्तते तद्वत् ब्रह्मज्ञाने जाते सति जगदादिभेदप्रपञ्चो निवर्तते इति ।
असत्कार्यवादस्तु आरम्भवादः इत्युच्यते । स च नैयायिकानाम् माध्व-
वेदान्तिनां च । तन्मते असदेव कार्यमुत्पद्यते । यथा पूर्वमसदेव तत्त-
द्घटादिकार्य दण्डचऋचीवरा दिसामग्रीसमव हितान्मृदादिकारणाद्भिनं सदु
त्पद्यते इति । अत्रायं भावः । स्वोत्पत्तेः पूर्वे तत् कार्य नासीदेव ।
पश्चात्कारणसामग्रीवशादुत्पद्यते इति कार्यकारणयोरन्यत्वम् परमार्थतः
सत्यत्वं च इति । एवम् विज्ञानवादो योगाचारबौद्धानाम् शून्यवादो
माध्यमिकबौद्धानाम् स्याद्वाद आर्हतानाम् इत्यादिकं च तत्तच्छास्त्राज्ज्ञेय -
मित्यत्रैव विरम्यते ।
 
७३५
 
वादनम्
– अभिघाताख्यसंयोगावच्छिन्नक्रिया । यथा भेरीमृदङ्गं वादयेत्यादौ
णिजन्तवदधात्वर्थः ( दि० ४ पृ० १८३ ) । वाद्यभेदा उच्यन्ते । तालेन
राजते गीतं तालो वादित्रसंभवः । गरीयस्तेन वादित्रं तच्चतुर्विधमुच्यते ॥
ः।
ततं सुषिरमानद्धं घनमित्थं चतुर्विधम् । ततं तन्त्रीगतं वाद्यं वंशाद्यं
सुषिरं तथा ॥ चर्मावनद्धमानद्धं धनं तालादिकं मतम् इति । तत्र
अलावनीप्रभृति ततम् इत्युच्यते । वंश पारि मधुरी तित्तिरी इत्यादिकं
सुषिरम् इत्युच्यते । मर्दल मुरज पटह ढक्का पणव करटक मठ भेरी
इत्यादिकम् आनद्धम् इत्युच्यते । घनं तु अनुरक्तविरक्तभेदेन द्विविधम् ।
करतालकांस्यतालभेदेन द्वादशविधं चेति । अत्राधिकं लक्षणविभागादिकं
तु संगीतदामोदरादौ द्रष्टव्यम् (वाच० ) ।
 
वादी - १ [क] प्रकृतसाध्यसाधनाय न्यायप्रयोगकर्ता । यथा पर्वते
वहिसाधने विपरीतोद्भावकस्य प्रतिवादिनो निवृत्त्यर्थ वादी प्रतिज्ञादि-