This page has not been fully proofread.

७३४
 
न्यायकोशः ।
 
वाटपरिक्षेपः - शाळासमुदायरक्षणाय सर्वतो मार्गप्रतिरोधकं यत्परितः
क्षिप्यते तदुच्यते ( भाष्यप्रदीपोद्योते १।१।७) ।
 
-
 
-
 
वात्स्यायनः – १ न्यायसूत्रभाष्यकारः पक्षिलाख्यो मुनिविशेषः । २ काम-
शास्त्रप्रतिपादकसूत्रकर्ता । ३ वत्सगोत्रापत्यं युवा इति वैयाकरणा वदन्ति ।
वादः – १ ( कथा ) [ क ] प्रमाणतर्कसाधनोपालम्भः सिद्धान्ताविरुद्धः
पञ्चावयवोपपन्नः पक्षप्रतिपक्षपरिग्रहो वादः ( गौ० १ । २ । १ ) । तदर्थश्च
प्रमाणाभासत्व प्रकारकज्ञान
विषय करणक साधनोपालम्भयोग्यान्यः इति ।
तेन जल्पविशेषे नातिव्याप्तिः । निग्रहस्थानविशेष नियमार्थे सिद्धान्तेत्यादि
विशेषणद्वयम् ( गौ० वृ० १।२।१ ) । एकाधिकरणस्यौ विरुद्धौ धर्मों
पक्षप्रतिपक्षौ प्रत्यनीकभावादस्त्यात्मा नास्त्यात्मेति । नानाधिकरणौ
विरुद्धौ न पक्षप्रतिपक्षौ । यथा नित्य आत्मा अनित्या बुद्धिरिति । परि
ग्रहोभ्युपगमव्यवस्था । सोयं पक्षप्रतिपक्षपरिग्रहो वादः । तस्य विशेषणं
प्रमाणतर्क साधनोपालम्भ: । प्रमाणैस्तर्केण च साधनमुपालम्भश्चास्मि-
क्रियत इति । साधनं स्थापना । उपालम्भः प्रतिषेधः ( वात्स्या० १।२।१ ) ।
सूत्रतात्पर्य तार्किकरक्षायामुक्तम् तत्र प्रमाणतर्काभ्यां साधनाक्षेपसंयुता ।
वीतरागकथा वादस्तत्फलं तत्त्वनिर्णयः ॥ ( ता० २० श्लो० ७७ )
इति । वादश्च अष्टनिग्रहाणामधिकरणम् । ते च न्यूनाधिकाप-
सिद्धान्ताः हेत्वाभासपञ्चकं चेत्यष्टौ निग्रहाः ( त० मा० पू० ४४ ) ।
[ख ] प्रमाणाभासत्वप्रकारकज्ञान विषयकरणकसाधनोपालम्भयोग्यान्यत्वे
सति पक्षप्रतिपक्षसाधनोद्देश्य कोक्ति प्रत्युक्तिरूपवचनसंदर्भ : ( गौ० वृ०
१।२।१ ) । [ग] नानाप्रवक्तृकः प्रत्यधिकरणसाधनोन्यतराधिकरण-
निर्णयावसानो वाक्यसमूहः (वात्स्या० १।१।१ पृ० ८) । [घ ] तख-
निर्णयफल: कथाविशेष: ( सर्व० पृ० २३९ अक्ष० ) । यथा वाद:
प्रवदतामहम् ( गीता० १० ।३२) इत्यादौ । [ङ] तत्त्वबुभुत्सोः कथा
( त० भा० पृ० ४४ ) । २ स्वाभिमतार्थकथनम् । अयं वादो द्विविधः
सत्कार्यवादः असत्कार्यवादश्च । तत्र सरकार्यवादोपि द्विविधः परिणाम-
वादः विवर्तवादश्च । तत्र परिणामवादः सांख्यानाम् रामानुजीयानां च ।