2023-02-20 00:56:36 by ambuda-bot
This page has not been fully proofread.
न्यायकोशः ।
यथा पुराणादिपाठको वाचको भवति । अत्रोच्यते वाचकः पूजितो येन
प्रसन्नास्तस्य देवताः ( पुरा० ) इति । अन्यच्च ब्राह्मणं वाचकं विद्याना-
न्यवर्णजमादरात् । श्रुत्वान्यवर्णजाद्राजन् वाचकान्नरकं व्रजेत् ॥
(ति० त० ) ( वाच० ) इति ।
वाचनिकः }. - १ ( नमस्कार: ) उत्कृष्टत्वादिबुद्ध्या प्रयुक्तो नमःपदादि-
घटितः शब्दः । यथा बन्दे गोविन्दमानन्दज्ञानदेहं पतिं श्रियः
( मणिमझ ० ) इति । यथा वा हरये नम इत्यादौ नोत्तरमकारविशेषादि-
र्वाचनिकः ( मू० म० मङ्ग० १५० १०५ ) । लक्षणं च वाचनिक-
नमस्कारत्वम् । तच्च नत्वमत्वादिव्याप्या नाना जातयः । नव्यास्तु
शाब्दबोधवृत्तिशाब्दत्वव्याप्यजातिविशेषः
( मू० म० १
पृ० १०५) । २ धर्मज्ञास्तु वचन निष्पादितं पापादि इत्याहुः ।
३ वाक्यारम्भः इति काव्यज्ञा आहुः ( वाच० ) ।
इत्याहुः
वाच्यः- १ [क] वाचकबोध्योर्थः । शक्त्या बोध्यः इत्यर्थः । स एव
मुख्यार्थः इत्युच्यते । यथा गवादिर्गोपदवाच्यः ( ग० श० पृ० ३ ) ।
अत्रोच्यते न चाल्पत्वबहुत्वाभ्यां प्रयोगाणां विशिष्यते । वाच्यवाचक-
भावोयमक्षपादादिशब्दवत् ॥ बिभीतकेप्यक्षशब्दो यद्यप्यल्पैः प्रयुज्यते ।
तथापि वाचकस्तस्य ज्ञायते शकटाङ्गवत् ॥ ( म० त० भट्टवा ० >
( वाच ० ) इति । [ ख ] मीमांसकास्तु यद्यस्माच्छब्दान्नियमतः प्रतीयते
तत्तस्य वाच्यम् । यथा गामानय इत्यस्मिन्वाक्ये गोशब्दस्य गोत्वं वाच्यम्
इत्याहु: ( लौ० भा० पृ० ६ ) । २ धर्मज्ञास्तु दूष्यः । यथा परस्पर-
स्पर्धिपरार्ध्यरूपाः पौरस्त्रियो यत्र विधाय वेधाः । श्रीनिर्मितिप्राप्तधुण-
क्षतैकवर्णोपमावाच्यमलं ममार्ज ॥ ( माघ० स० ३ को० ५८)
इत्यादौ इत्याहुः ।
बाजपेयम् – वाजमन्नम् । तच्च पेयं सुराद्रव्यम् ( जै० न्या० अ० १
पा० ४ अधि० ३ ) ।