This page has not been fully proofread.

७३२
 
न्यायकोशः ।
 
कौ० ख० ४ पृ० १६) । अत्रेदमवधेयम् । वाक्यार्थरूपान्वयविशिष्टे
पदानां शक्तिः इति भाट्टा आहुः । तन्न सहन्ते नैयायिकाः । तथा हि ।
अनन्यलम्यः शब्दार्थः इति नियमेनान्वयविषयकशाब्दबोधे तत्तदानु-
पूर्वीज्ञानत्वेन हेतुतया तद्वलादेवान्वयभानोपपत्तावन्वय विशिष्टे शक्ति-
कल्पनं व्यर्थमेव । शक्यस्यैव शाब्दविषयत्वम् इति नियमस्वीकारे लक्षणो-
च्छेदापत्तिः ( त० प्र० ख० ४ पृ० २७ ) इति । [ग] वाक्यघटक-
प्रत्येक
पदोपस्थितानां पदार्थानामाकामादिज्ञानवशात्परस्परान्वयिभावाप-
नोर्थः । यथा गामानय इत्यत्र गोकर्मत्वानयनकृतीनां प्रत्येकं तत्तत्पदोप-
स्थापिताना माकाङ्क्षाबलात्परस्परमन्वयी गोनिष्ठकर्मत्वनिरूपकानयनानु-
कूलकृतिमान् इति वाक्यार्थः । [घ] शाब्दिकास्तु पदार्थानां मिथोन्वय-
रूप उद्देश्यविधेयभावसंबन्ध इत्याहुः ।
 
वाक्यार्थज्ञानम् - शाब्दबोधः । स च एकपदार्थे अपरपदार्थसंसर्ग विषयकं
ज्ञानम् ( वाक्य ० ४ पृ० २० ) । यथा घटमानय इत्यादौ धात्वर्था-
नयनरूपक्रियायां घटम् इति द्वितीयान्तार्थघटक र्मत्व निरूपकत्वरूपसंसर्ग-
विषयकं ज्ञानम् (त० सं० ) ।
 
वाचकम् - १ ( पदम् ) [ क ]
 
ईश्वरसंकेतेन ( शक्तया ) अर्थबोधकं
पदम् । यथा गोत्वादिविशिष्टबोधकं गवादिपदम् (ग० शक्ति० पृ० ३ ) ।
इदं मुख्यं पदम् इत्युच्यते । इदं च प्राचीनमताभिप्रायेण । तथा हि ।
प्राचीनमते संकेतो द्विविधः । शक्तिः परिभाषा च । तत्रेश्वरसंकेत एव
शक्तिः इत्युच्यते । तेनैवार्थबोधकं पदं वाचकम् इत्युच्यते । परिभाषया
अर्थबोधकं तु पदं पारिभाषिकम् इत्युच्यते । नव्यमते तु इच्छामात्रस्य
संकेतरूपत्वेन शक्तिपरिभाषयोरैक्यात् परिभाषयाप्यर्थबोधकं पदं वाचकम्
इति व्यवयिते इति विशेषो ज्ञेयः । [ ख ] शक्त्यार्थबोधकं पदम् ।
यथा प्रवाहवाचकं गङ्गापदम् । यथा वा गोघटादिब्यक्त्युपस्थापकं
गोघटादिपदम् (त० कौ० ४ पृ० १६) । तदुक्तम् साक्षात्संकेतितं
योर्थमभिधत्ते स वाचकः ( काव्यप्र० उल्ला० २ श्लो० ७) इति ।
गौणं तु लाक्षणिकं पदम् ( त० कौ० ४ पृ० १६) । २ कथकः ।