This page has not been fully proofread.

न्यायकोशः ।
 
शक्यार्थद्वये संभवति एकार्थनिर्णयै कविशेषाभावादनभिप्रेतशक्यार्थकल्पनेन
दूषणाभिधानम् तद्वाक्छलम् ( गौ० १० १२ । २ । १२ ) इति । [ ख ]
शत्तयैकार्थशाब्दबोधतात्पर्य कशब्दस्य शक्तया अर्थान्तरतात्पर्यकत्वकल्पनया
दूषणाभिधानम् । अत्रोच्यते अभिधावैपरीत्येन कल्पितार्थस्य बाधनम्
( ता० र० १ श्लो० ९५ ) इति । यथा नेपालादागतोयं नवकम्बलव-
त्वादित्युक्ते कुतोस्य नवसंख्याकाः कम्बलाः इति । एवम् गौर्विषाणीत्युक्ते
कुतो गजस्य शृङ्गम् श्वेतो धावति इति श्वे तरूपवदभिप्रायेणोक्ते श्वेतो (श्वा
इतः) न धावति इत्यभिधानम् इत्यादिकमूह्यम् ( गौ० वृ० १ । २ । १२ ) ।
 
वाक्पारुष्यम् – देशजातिकुलादीनामाकोशं न्यङ्गसंयुतम् । यद्वचः प्रति-
कूलार्थं वाक्पारुष्यं तदुच्यते ॥ ( मिताक्षरा अ० २।२०४ ) ।
वाक्यम् –[क] पदसमूहः । वाक्यत्वं च विशिष्टार्थपरशब्द त्वम् ( चि० ४) ।
वाक्यं द्विविधम् प्रमाणवाक्यम् अप्रमाणवाक्यं चेति । तत्र प्रमाणवाक्यम्
आकाङ्क्षायोग्यतासंनिधिमतां पदानां समूहः । यथा गामानय इत्यादि
( त० मा० ४ ) ( त० सं० ) ( सा० ६० ) । अथवा यादृशशब्दानां
यादृशार्थविषयिताकबोधं प्रति अनुकूला परस्पराकाङ्क्षा तादृशशब्दस्तोम
एव तथाविधार्थे वाक्यम् ( श० प्र० श्लो० १२ टी० पृ० १४)।
वैयाकरणास्तु एकतिङ् इत्याहुः ( महाभा० ) । एकतिङन्सार्थमुख्य-
विशेष्यकबोधजनकपदसमूहः इत्यर्थः । तेन पचति भवति पश्य मृगो
धावति ब्रूहि ब्रूहि देवदत्त इत्यादौ च क्रियापदस्यानेकत्वेपि नैकवाक्यता-
ब्याघातः इति । सुप्तिङन्तचयो वाक्यम् इत्यमरसिंह आह । केचित्तु
स्वार्थबोधसमाप्तः पदसमुदाय: इत्याहुः । समभिव्याहारो वाक्यम् इति
मीमांसका आहुः । तदर्थश्च साध्यत्वादिवाचकद्वितीयाद्यभावेपि वस्तुतः
शेषशेषिवाचकपदयोः सहोच्चारणम् । यथा यस्य पर्णमयी जुहूर्भवति न
पापरलोक शृणोति ( तैत्ति ० संहिता० ३।५ ७ ) इति । लिङादिपद-
घटितं वाक्यं द्विविधम् विधिः निषेधश्च । तत्र विधिः स्वर्गकामो यजेत
इत्यादि वाक्यम् । निषेधस्तु न कलमं भक्षयेत् न सुरां पिबेत् इत्यादि
वाक्यम् ( लौ० भा० ) । अप्रमाणवाक्यं तु आकादिरहितं वाक्यम् ।