This page has not been fully proofread.

न्यायकोशः ।
 
वसन्तः - मीन मेषयोर्मेषवृषभयोर्वा वसन्त इति बौधायनोक्तेमना दिसौरमास-
ध्यात्मको मेषादिसौरमासद्वयात्मको वा वसन्तः ( पु० चि० पृ० ८ ) ।
वसु - १ अष्टमी तिथि: ( पुरु० पृ० ३७ ) । २ धरो ध्रुवस्तथा सोम
आपश्चैवानिलोनलः । प्रत्यूषश्च प्रभातश्च वसवोष्टौ प्रकीर्तिताः ॥
( मिताक्षरा अ० २ श्लो० १०२ ) ।
 
वस्तु — संकेतविषयः । यथा घटगगनादि । वस्तुत्वं च प्रमेयत्वम् स्वरूप-
संबन्धविशेषो वा ( म० प्र० ख० २ पृ० २३ ) ( त० प्र० २
पृ० ३९ ) । वस्तु द्विविधम् बाह्यम् अबाह्यं च । तत्र आत्मा तद्योग्य-
गुणास्तद्वृत्तिजातिः स्वर्गापूर्वादि चैतान्यबाह्यवस्तूनि मनसा श्रुत्यनुमाना-
दिना च वेद्यानि च । एतदन्यानि तु बाह्यवस्तूनि ।
 
वह – ( धातुः )
 
नयनशब्दबदस्यार्थोनुसंधेयः ( ग० व्यु० का० २ पृ०
४६ ) । यथा वहति अवाक्षीत् इत्यादौ । अस्य प्रधानकर्मण्येव लका-
रादयो भवन्ति । गौणे कर्मणि दुह्यादेः प्रधाने नीहकृष्णहाम् । बुद्धि-
भक्षार्थयोः शब्दकर्मणां च निजेच्छया । इत्यनुशासनात् । अत्राधिकं
च नयनदोहनशब्दव्याख्याने द्रष्टव्यम् ।
 
वहनम् –नयनम् ।
 
वह्निः – १ ( तेज: ) अग्निः । यथा पर्वतो वह्निमान् धूमादित्यादी साध्य-
भूतो वह्निः । अयं वह्निस्तु भौतिकः पार्थिवमात्रेन्धनं भौमं तेजः इति
विज्ञेयम् । अत्रेदं ज्ञेयम् । वह्नित्वेन घूमत्वेन च सर्वेषां वह्निधूमानां साभ्य-
साधनभावः । न तु तत्तद्धूमतत्तद्वयादिव्यक्तीनाम् इति । सामान्य-
प्रत्यासत्या तु सकलवह्निधूमानां ज्ञेयता चेति । अग्निमेदादिकमुक्तं यथा
जृम्भको दीपकश्चैव विभ्रमभ्रमशोभनाः । आवसध्याहवनीयौ दक्षिणाभि-
स्तथैव च ॥ अन्वाहार्यो गार्हपत्य इत्येते दश वह्नयः इति । अन्यच आजको
रजकश्चैव वेदकः स्नेहकस्तथा । धारको बन्धकश्चैव द्रावकाख्यश्च
सप्तमः ॥ व्यापकः पावकश्चैव श्लेष्मको दशमः स्मृतः इति । श्रौते
कर्मणि मुख्याग्नयो यथा गार्हपत्यो दक्षिणाग्निस्तथैवाहवनीयकः । एते-