This page has not been fully proofread.

२६
 
न्यायकोशः ।
 
-
 
रणाभावो न स्यात् अपि त्वावरणोपपत्तिरेव स्यादिति शब्दनित्यत्वे नोक्तं
बाधकं युक्तम् ( गौ०० ५ । १ । २९) । [ग] वादिनानुपलब्धिवशा-
कस्य चित्पदार्थस्यानङ्गीकारेनुपलब्धिवशादेव वाद्यमिमतस्यापि यत्किं
चित्पदार्थस्याभावसाधनम् । यथा जलादेर्विद्यमानस्याप्यावरणवशादनु-
पलब्धिः तद्वत् उच्चारणापूर्वं शब्दस्य विद्यमानस्याप्यावरणवशादनुप-
लब्धिः । इत्येतन्मतं वादिना दूष्यते । यद्यावरणवशाच्छन्दो नोपलभ्यते
तदा जलाद्यावरणमित्र शब्दाद्यावरणमप्युपलभ्येतेति । तत्रोत्तरम् । यदि
भवद्भिरनुपलब्धित आवरणं न स्वीक्रियते तदानुपलब्धेरप्यनुपलब्ध्या
अभावे सिद्धे तदभावादावरणाभावासिद्धावावरणसिद्धिरिति ( नील o
४४–४५) । [ घ ] स्वस्मिन्विषयिधर्माणां तदतद्रूपकल्पनात् । विप-
र्ययप्रसङ्गः स्याज्जातिश्चानुपलब्धितः ( ता० २०१० २ श्लो० १२३ ) ।
अनुपसंहारित्वम् – ( हेतुदोष: ) [ क ] विशिष्टसाध्यसाधनग्रहाविरोधिनो
ज्ञानस्य विषयतया व्यतिरेक व्याप्तिग्रह विरोधितावच्छेदकरूपवत्रम् । ता-
दृशं रूपं च साध्यादिनिष्ठमयन्ताभावाप्रतियोगिन्चादिकम् । साध्यसाधन-
योर प्रसिद्धेरसिद्धिभेदस्य वारणायाविरोधिन इत्यन्तम् । यस्य साध्यादेरत्य-
न्ताभावः अप्रसिद्धस्तनिष्ठम प्रतियोगित्वमित्यर्थः । इदं लक्षणोदाहरणादिकं
च नव्यमतानुसारेणेति बोध्यम् (दीधि० २।२०४) (नील०२५) । यथा
इदं वाच्यं ज्ञेयत्वादि-यादौ वाच्यत्वादिनिष्ठमत्यन्ताभाषा प्रतियोगित्वादिकम-
नुपसंहारित्वम् । अत्रेदमाकूतम् । इदं वाच्यं ज्ञेयत्वादित्यादौ ज्ञेयत्वे वाच्य
स्वात्यन्ता भावव्यापकीभूताभावप्रतियोगित्व रूपव्यतिरेकव्याप्तिज्ञाने ( भ्रमा-
त्मके) अत्यन्ताभावांशे वाच्यत्वप्रतियोगिकत्वस्य भासने तुल्यवित्तिवेद्यतया
वाच्यत्वांशे अत्यन्तामावप्रतियोगित्वमपि भासते । तथा च वाभ्याशे
अत्यन्ताभावप्रतियोगित्वविषयकं व्यतिरेकव्याप्तिग्रहं प्रति वाच्यत्वांशे
अत्यन्ताभावाप्रतियोगित्वरूपानुसंहारित्व निश्चयस्य तदभाववत्ताज्ञानमुद्रया
विरोधित्वालक्षणसमन्वय इति । [ख ] अवृत्तिसाभ्यहेत्वन्यतरत्वम् अट्ट
त्तिसाध्यकत्वं वा । यथा आकाशबान्धूमादित्यादौ ( न्या० म० २।२० ) ।
वस्तुतस्तु केवळान्वयिधर्मावच्छिन्नपक्षकत्वमनुपसंहारित्वम् । पक्षः संदि-