2023-02-20 00:56:35 by ambuda-bot
This page has not been fully proofread.
न्यायकोशः ।
७२७
बुद्धौ वर्तमानत्वात् तथा प्रयोगः इति भावः । तृतीयो नित्यप्रवृत्तः यथा
पर्वतास्तिष्ठन्तीत्यादौ । अत्र पर्वतानां स्थितिर्नित्यप्रवृत्ता इति तथा
प्रयोगः । एवम् पर्वतानां स्थितत्वेन वर्तमानत्वेपि भूतभविष्यत्कालाभ्यां
संबन्धविवक्षया पर्वतास्तस्थुः स्थास्यन्ति इत्यपि प्रयोगः स्यात् इत्यवधेयम्
( वाच० ) । सामीप्यरूपः चतुर्थो द्विविधः भूतसामीप्यः भविष्यत्सामीप्य-
श्चेति । तत्राद्यो भूतसामीप्यः यथा एत्रोहमागच्छामीत्यादौ । अत्र कदा
आगतोसि इति प्रश्ने आगतोपि अध्वस्वेदादेवर्तमानत्वात् एषोहमाग-
च्छामि इति वदति इति ज्ञेयम् । द्वितीयो भविष्यत्सामीप्यः यथा एषोहं
गच्छामीत्यादौ । अत्र कदा गमिष्यसि इति प्रश्न गमने क्रियमाणोद्यमोपि
एषोहं गच्छामि इति वदति इति विज्ञेयम् ( दुर्गादासः ) ( वाच० ) ।
जगदीशोप्याह । लडर्थवर्तमानसामीप्यमपि द्विविधम् वर्तमानक्षणोत्तर-
कालावच्छेद्यत्वम् वर्तमानक्षणाव्यत्र हितप्राक्कालावच्छेद्यत्वं चेति । तेन
चैत्रः कदा गमिष्यति इति जिज्ञासायां एष गच्छति इत्युत्तरस्य वर्तमान-
क्षणोत्तरकालावच्छेद्यगतिमांश्चैत्रः इत्यर्थः । चैत्रः कदा समागतः इति
जिज्ञासायां एष आगच्छति इत्युत्तरस्य तु वर्तमानक्षणाव्यवहितप्राक्काला-
वच्छेद्यागमनवान् इत्यर्थः इति न प्रश्नोत्तरभावासङ्गतिः इति ( श० प्र०
श्लो० ९७ टी० पृ० १४३ ) । भत्र प्राञ्चो वैयाकरणा आहुः । वर्त-
मानत्वं च प्रारब्धापरिसमाप्तत्वम् भूतभविष्यद्भिन्नत्वं वा । यथा पचती-
त्यादौ अधिश्रयणाद्यधः श्रयणान्ते मध्ये पूर्वापरीभूतक्रियासमुदाये वर्तमान-
त्वमस्ति इति भवति लट्प्रयोगः (बै० सा० ल० पृ० १२०)
( ल० म० ) इति । २ शब्दप्रयोगाधिकरणकालवृत्तिः । यथा वर्तमान-
ध्वंस प्रतियोगित्वमती तत्वम् इत्यादौ ( नील० १ कालनि० पृ० १०)।
वशा — धेनुः ( पुरु० १० ६ ) ।
वषट्- (अव्ययम् ) १ स्वाहाशब्दवदस्यार्थोनुसंधेयः । यथा वषडिन्द्रा-
येत्यादौ ( श० प्र० श्लो० ९३ पृ० १२६ ) । २ वषट् इति करणे ।
यथा वषट्कारं गृणन् द्विजः ( भाग० स्क० ९) इत्यादौ । एवम्
वषट्कार वौषट् इति शब्दौ व्याख्येयौ ।