2023-02-20 00:56:35 by ambuda-bot
This page has not been fully proofread.
७२६
न्यायकोशः ।
संदिग्धसाध्यकत्वात्सपक्षवृत्तित्वानिश्चयादसाधारणो हेतु: । हेतु: संदिग्ध-
साध्यकवृत्तिर्यदि न दृष्टान्ते तदा गमक हेत्वभावात्साधनविकलो दृष्टान्तः
स्यात् ( गौ० वृ० ५/१४ ) इति । सपक्षवर्तिनो हेतोर्यादृग्रूपं विव-
क्षितम् । पक्षोपि तादृग्घेतुः स्यादन्यथासिद्धिहेतुता ॥ सपक्षत्वात्तदा साध्य
इति वर्ण्यसमा क्षतिः ( ता० २० २ श्लो० १०६ - १०७ ) इति ।
[ग] वर्ण्यस्य स्थापनीयस्य दृष्टान्तधर्मस्य पक्षे साधनम् । यथा आत्मा
सक्रियः क्रियाहेतुगुणवत्त्वाल्लोष्टवदित्यादौ क्रियाजनकनोदनाख्यसंयोग-
चवाल्लोष्टादेर्भवतु क्रियावत्त्वम् । आत्मनस्तु क्रियावत्त्वे तज्जनकनोद-
नाख्यसंयोगवत्त्वमपि स्यादिति (नील० पृ० ४३ ) ।
वर्तमान: - १ ( काल: ) [ क ] येन हि वस्तुना यः कालोवच्छिद्यते
स तस्य वर्तमानः (वै० उ० २१२१८) । यथा इदानीं घटोस्ति
इत्यादौ घटावच्छेदकः धात्वर्थसत्तावच्छेदको वा इदं शब्दवाच्यः कालो
वर्तमानः । अत्र तद्व्यक्तिध्वंसप्रागभावानवच्छिन्नः कालस्तयक्तेर्वर्तमान-
कालः इति ज्ञेयम् ( त० कौ० कालनि० पृ० ३ ) । वर्तमानत्वं च
स्थितिः । तच्च प्राक्संबन्ध स्वभावर हितस्वरूपत्वम् स्वकार्यप्रागभावसंबद्धं
वा । [ ख ] प्राञ्चस्तु वर्तमानध्वंसप्रागभावाप्रतियोग्यवच्छिन्नः काल
इत्याहुः । कालस्य संबन्धमात्रत्वमते अवच्छिन्न इति विशेषणं न देयम्
( प० मा० कालनि० पृ० ९२ ) इति । ध्वंसे वर्तमानत्वं तु तत्त-
च्छब्दप्रयोगाधिकरणकालवृत्तित्वमेव इति निर्वाच्यम् । अतो नात्माश्रयः
इति बोध्यम् ( नील० १ कालनि० पृ० १० ) । [ग ] नव्यास्तु
तत्तच्छब्दप्रयोगाधिकरणकालः । यथा पचतीत्यत्र लडर्थः इत्याहुः
( ग० व्यु० ल० पृ० १३४ ) ( वाक्य० काल० नि० ) ( वै० सा०
द० पृ० १२० ) । लडर्थवर्तमानकालश्चतुर्विधः प्रवृत्तोपरतश्चैव वृत्ता-
विरत एव च । नित्यप्रवृत्तः सामीप्यो वर्तमानश्चतुर्विधः ॥ इति । तत्राद्यः
प्रवृत्तोपरतः यथा मांस न खादतीत्यादौ । भत्र आदौ प्रवृत्तं मांस-
भोजनं निवर्तयति इत्यर्थः (वाच० ) । द्वितीयो वृत्ताविरतः यथा इह
कुमाराः क्रीडन्तीत्यादौ । अत्र तदानींतनक्कीडनाभावेपि पूर्वक्रीडानां