This page has not been fully proofread.

न्यायकोशः ।
 
चोक्तम् । बहूनामेककार्याणां सर्वेषां शस्त्रधारिणाम् । यथेको घातक-
स्तत्र सर्वे ते घातकाः स्मृताः ॥ इति । अन्यच्च अनुमन्ता विशसिता
निहन्ता क्रयविक्रयी । संस्कर्ता चोपहर्ता च खादकश्चेति घातकाः ॥
( मनु० अ० ५ को० ५१ ) इति । वधविषये अधिकप्रपञ्चस्तु हिंसा-
शब्दव्याख्यानावसरे प्रदर्शयिष्यत इति तत्र द्रष्टव्यः ।
 
वनम्—१ वृक्षसमुदायः । यथा सुवनी संप्रवदत्किापि का ( नैष० )
इत्यादौ । यथा वा श्यामायमानानि वनानि पश्यन् ( रघु० स० २
श्लो० १७ ) इत्यादौ । अत्र वनत्वं च तत्तद्वृक्षादि विषयकज्ञान विषयत्वम्
( त० प्र० ख० ४ पृ० ५० ) । २ जलम् । ३ निवासः । ४ प्रस्तरणं
चेति काव्यज्ञा आहुः ( हेमच० ) ।
 
वरणम् – सत्कारपुरःसरम् अभिर्होता इत्यादिप्रार्थना वरणम् ( जै० न्या०
अ० १० पा० २ अधि० ११ ) ।
 
वराङ्गः – चतुर्विंशत्यधिकशतत्रयम् ( अतलशब्दे दृश्यम् ) ।
 
(
 

 
वर्ण: - १ ( गुणः ) शुक्कादिरूपम् । यथा वर्ण: शुलो रसस्पर्शी जले मधुर-
शीतलौ ( भा०प० श्लो० ४० ) इत्यादौ । २ ब्राह्मणादिजाति: ।
यथा चातुर्वर्ण्य मया सृष्टम् ( गीता० अ० ४ श्लो० १३ ) इत्यादौ
ब्राह्मणक्षत्रिय वैश्यशूद्रभेदेन चतुर्विधा इति पौराणिका आहुः । अत्र श्रुतिः
ब्राह्मणोस्य मुखमासीद्वाहू राजन्यः कृतः । ऊरू तदस्य यद्वैश्यः पञ्यां
शूद्रो अजायत इति ( यजुः - ३१ । ११ ) । तेषां पूर्वः पूर्वो जन्मतः
श्रेयान् ( आपस्तम्ब धर्मसू० १ । १ । १ । ४ ) । ब्राह्मणस्य श्रैष्ठ्ये कारण-
मुक्तं मनुना यथा ऊर्ध्व नाभेर्मेध्यतरः पुरुषः परिकीर्तितः । तस्मा-
न्मेध्यतमं त्वस्य मुखमुक्तं स्वयंभुवा ॥ उत्तमाङ्गोद्भवाज्यैष्ठ्याइह्मणश्चैव
धारणात् । सर्वस्यैवास्य सर्गस्य धर्मतो ब्राह्मणः प्रभुः ॥ ( मनु० अ० १
को० ९२-९३ ) ( १० ३ ) इति । वर्णधर्मश्च नित्यं मद्यं ब्राह्मणो
वर्जयेत् इत्यादिः ( मिता० १।१ पृ० १ ) । ब्राह्मणादिवर्णानां कर्माणि
तु शमदमतपोज्ञानादि ब्राह्मणस्य शौर्य प्रजापालनज्ञानादि क्षत्रियस्य
कृषिगोरक्षषाणिज्यं वैश्यस्य परिचर्या शूद्रस्य ( गीता० अ० १८
 
D