This page has not been fully proofread.

१७२२
 
न्यायकोशः ।
 
द्विजश्रेष्ठ सलोभः परिकीर्तितः ॥ ( पद्मपु० ) ( वाच० ) इति ।
यथा लोमश्वेदगुणेन किम् इत्यादौ । [ख ] लिप्सातिशयः ( मिताक्षरा
अ० २ श्लो० १ ) ।
लौकिक: - ( पुरुष: )
 
लोकसाम्यमनतीतो नैसर्गिकं वैनयिकं बुद्ध्यति-
शयमप्राप्तः (वात्स्या० १११।२५ ) । यथा लौकिकपरीक्षकाणां यस्मिन्नर्थे
बुद्धिसाम्यं स दृष्टान्तः ( गौ० १९९१ । २५) इत्यादौ कश्चन ग्राम्यो
जनो लौकिकः । अत्र लौकिकत्वं च अप्राप्तशास्त्रपरिशीलनजन्यबुद्धि-
प्रकर्षत्वम् ( गौ० वृ० १।१।२५ ) ।
लौकिक प्रत्यक्षम् -(प्रत्यक्षम् ) [ क ] लौकिकसंनिकर्षजन्यं ज्ञानं प्रत्य-
क्षम् ( ल० १० ) । यथा घटचक्षुः संयोगे सति भूतले घटवत्ताज्ञानम् ।
(मु० २ पृ० १६० ) । [ख ] षडिधसंनिकर्षजन्यं प्रत्यक्षम् ( त ०
कौ०
१० १ १० ८ ) । अत्र प्रत्यक्षे लौकिकत्वं च साक्षात्कारत्वव्यञ्जक-
विषयताविशेषः । एवम् दोषविशेषजन्यज्ञानेपि लौकिकत्वं विज्ञेयम्
(ग० सत्प्र० पृ० १६-१७ ) । गन्धादेविषयस्य लौकिकत्वं च
मानसेत्तरलौकिक साक्षात्कारविषयत्वम् विषयताविशेषो वा । चक्षुरादीनां
षण्णामिन्द्रियाणां लौकिकत्वं तु लौकिकप्रत्यक्षजनकत्वमेव इति चिन्त्यम् ।
अत्रेदं बोध्यम् । घटाभावव्याप्यवद्भुतलम् इति विशेषदर्शनदशायामपि
घटचक्षुः संयोगे सति लौकिकसंनिकर्षजन्यस्य भूतलं घटवत् इत्यादि-
प्रत्यक्षस्योदयात् तदुपनीतभानशाब्दबोधादेश्वानुदयाच्च लौकिकसंनिकर्षा-
प्रति तदभावव्याप्यवत्ता-
जन्यदोषविशेषाजन्यतद्विशिष्टबुद्धित्वावच्छिन्नं
निश्चयस्य प्रतिबन्धकत्वकल्पनमुचितम् इति ।
 
-
 
लौकिकवाक्यम् – मानुषादिप्रणीतवाक्यम् । यथा घटमानय इत्यादि
वाक्यम् । अत्र लौकिकत्वं च वैदिकभिन्नत्वम् ( वाक्य० ४ पृ० २२ ) ।
लौकिकसंनिकर्षः- प्रत्यक्ष विशेषजनकः संयोगाद्यन्यतमः । अत्र संनिकर्षे
लौकिकत्वं चालौकिकसंनिकर्षभिन्नत्वम् संयोगाद्यन्यतमत्वं वा । ते च
षट् संयोगः संयुक्तसमवायः संयुक्तसमवेतसमवायः समवायः समवेत-