This page has not been fully proofread.

न्यायकोशः ।
 
अत्र वह्वयभिन्नाश्रयकप्रज्वलनानुकूलव्यापाराभावप्रयोज्य ओदनाभिना-
श्रय कवि क्वित्त्यनुकूलव्यापाराभावः इति वैयाकरणमते शाब्दबोध: ( ३०
सा० ल० पृ० १४८) । वयभिन्नाश्रय कभाविप्रज्वलन जन्यौदना-
श्रय कविक्वित्यनुकूल व्यापारः इति शाब्दबोध स्तूचितः ( वै० सा०
द० पृ० १४८) ।
 
लट्-~-(तिङ्) या तिङ् क्रियायाः ( धात्वर्थस्य ) अतिपाते ( विगमे )
भाविकालावच्छेद्यत्वस्य बोधिका तादृशी तिङ् लडुच्यते । यथा तण्डुले
चेप्राप्स्यत्योदनमपि पक्ष्यति चैत्र इत्यादौ ऌट् । अत्र स्पतिश्चैत्रादेर्भावि-
कालावच्छेदेन तण्डुलप्राप्यभाववत्त्वमनुभावयति । तथा च भाविकाल
इव क्रियाप्रतियोगिकोभावोपि ऌडर्थः । वस्तुतः भाविकालावच्छेदेन
तण्डुल प्राध्यभावप्रयुक्त ओदनपाकाद्यभाव एवोक्तस्थले लूटा चैत्रादावनु-
भाव्यः । क्रियाविरहप्रयुक्तस्य क्रियान्तरविरहस्यैव क्रियातिपातशब्दार्थ-
त्वात् ( श० प्र० श्लो० १०६ टी० पृ० १६३ ) । भविष्यत्वं
ऌडर्थः । यथा पक्ष्यतीत्यादौ ( ग० व्यु० ल० ) । यथा वा घटो
भविष्यतीत्यादौ । अत्र सूत्रम् ऌट् शेषे च (पा० सू० ३।३।१३ ) इति ।
तदर्थस्तु शेषे शुद्धे भविष्यति काले चकारात् क्रियायां चोपपदे
क्रियार्थायां धातोर्लट्प्रत्ययो भवति ( काशिका० ) इति । अत्र भवि-
ष्यत्वं च विद्यमानप्रागभावप्रतियोग्युत्पत्तिकत्वम् । तेन आगमिष्यतीत्या दौ
विद्यमानप्रागभावप्रतियोग्युत्पत्तिकागमनानुकूलकृतिमान् इत्यर्थः (तर्का०
४ पृ० ११ ) । वैयाकरणाश्च भविष्यत्वं वर्तमानप्रागभावप्रतियोगि-
समयोत्पत्तिमत्त्वम् इत्याहु: (वै० सा० ल० पृ० १२८ ) ।
लेख्यम् – देशाचाराविरुद्धं यद्यक्ताधिविधिलक्षणम् । तत्प्रमाणं स्मृतं
लेख्यम विलुप्तक्रमाक्षरम् ॥ ( मिताक्षरा अ० २ श्लो० ८९) ।
लेट् ~ (तिङ् ) लिडर्थवदस्यार्थोनुसंधेयः (वै० सा० ल० पृ० १२९ ) ।
अत्र सूत्रम् लिङर्थे लेट् (पा० सू० ३ । ४ ।७ ) इति । तदर्थस्तु लिङो
येर्थास्तेष्वर्येषु वेदे लेडा स्यात् इति । यथा जोषिषत् तारिषत् मन्दिषत्
नेता नेषत् कवयस्तक्षिषत् इत्यादी (काशिका० ) ।