2023-02-20 00:56:33 by ambuda-bot
This page has not been fully proofread.
न्यायकोशः ।
●
( श० प्र० लो० १०६ पृ० १६४ ) । अत्र सूत्रम् अनद्यतने लुट्
( पा० सू० ३/३/१५) इति । तदर्थस्नु अनद्यतने भाविनि लुट्
(वै० सा० ल० पृ० १२७ ) इति । अत्र अनद्यतन इति बहु-
ब्रीहिः । ते न व्यामिश्रे न भवति अद्य श्वो वा भविष्यति इति
(काशिका० ) ।
लङ्- (तिङ् ) या तिङ् क्रियायाः (धात्वर्थस्य ) अतिपाते ( विगमे )
अतीतकालावच्छेद्यत्वस्य बोधिका तादृशी तिङ् ऌडुच्यते । यथा एव
श्वेत् प्राप्स्यत् ओदनमप्यपक्ष्यत् इत्यादौ ऌङ् । अत्र स्यतिप्रभृतयश्चैत्रा-
देरतीत कालावच्छेद्यमिन्धनप्रात्यभाववत्त्वमनुभावयन्ति । तथा च अतीत-
काल इव क्रियाप्रतियोगिकोभावोपि ऌङोर्थः । वस्तुतः अतीतकाला-
बच्छेदेनेन्धनप्राप्यभावप्रयुक्त ओदनपाकाद्यभाव एवोक्तस्थले ऌङा चैत्रा-
दावनुभाव्यः । क्रियाविरहप्रयुक्तस्य क्रियान्तरविरहस्यैव क्रियातिपात-
शब्दार्थत्वात् ( श० प्र० लो० १०६ टी० पृ० १६४ ) । ऌर्थस्तु
व्याप्यक्रियया व्यापकक्रियाया आपादनम् ( तर्का० ४ पृ० ११ ) ।
यथा भूतले घटश्चेदभविष्यद्भूतलमिवाद्रक्ष्यत् इत्यादौ ऌर्थः । अत्रो-
दाहरणान्तरं यथा परस्परेण स्पृहणीयशोभं न चेदिदं द्वन्द्वमयोजयिष्यत् ।
अस्मिन्ये रूपविधानयत्नः पत्युः प्रजानां वितथोभविष्यत् ॥ ( रघु०
स० ७ श्लो० १४) इति । शाब्दिकमते क्रियाया अनिष्पत्तौ गम्य-
मानायां भूते भाविनि वा हेतुहेतुमद्भावे सति ऌङ् । अत्र जगदीश आह
कचित् भूतत्वम् क्वचित्तु भविष्यत्वं ऌडर्थः इति ( तर्का० ४ पृ० ११)
( सि० च० ४ पृ० ३२) । अत्र सूत्रम् लिङिमित्त ऌड् कियातिपत्तौ
( पा० सू० ३/३/१३९ ) इति । तदर्थस्तु लिङो निमित्तं हेतुहेतुम-
द्भावादि (वै० सा० ल० पृ० १४८) । भविष्यतीत्यनुवर्तते ।
हेतुहेतुमतोर्लिङ् इत्येवमादिकं लिंङो निमित्तम् । तत्र लिनिमित्ते भवि-
ध्यति काले ऌङ् प्रत्ययो भवति क्रियातिपत्तौ सत्याम् (काशिका ० ) इति ।
तत्र भाविनि हेतुहेतुमद्भावे ऌङ् यथा सुवृष्टिश्चेदभविष्यत् तदा सुभि-
क्षमभविष्यत् वह्निवेत्प्राज्वलिष्यत् ओदनमपक्ष्यत् इत्यादौ इत्याहुः ।