This page has not been fully proofread.

न्यायकोचः ।
 
र्षाभावेनाभावज्ञाने हेतुत्वाभावात् । इन्द्रियान्वयव्यतिरेकयोरधिकरणज्ञाना-
र्थमुपक्षीणत्वेनान्यथा सिद्धेः (वेदान्तपरि०) इति मायावादिनो वेदान्तिनः ।
छात्र नैयायिकाः तर्कितप्रतियोगिसस्वविरोध्यनुपलब्धिसहकृतेनेन्द्रियेणैवा-
भावज्ञानोपपत्तावनुपलब्बेः प्रमाणान्तरत्वासंभव इत्याहुः (त० दी० १८) ।
तदर्थव-तर्किता आपादिता प्रतियोगिनो घटादेः सवस्य सत्त्व प्रसक्ते-
विरोधिनी या उपलब्धिस्त प्रतियोगिकः अभावोनुपलब्धिस्तत्सहकृतेनेति
( नील० १८) । तथा हि । घटोपलब्धौ घटाभावाग्रहात् प्रतियोग्य-
नुपलब्धिर भावप्रत्यक्षे इन्द्रियस्यैव सहकारिणी। न तु प्रमाणान्तरम् । इन्द्रि-
येणैवाभावप्रत्यक्षोपपत्तेः । अन्यथा अभाव प्रत्यक्षस्येन्द्रियजन्यत्वाङ्गीकारे
इह घटो नास्ति इति निर्णयानन्तरं इह घटाभावं साक्षात्करोमि इति
साक्षात्कारविषयक प्रतीत्यनुपपत्तः ( त० कौ०१७-१८ ) । क्या
अनुपलब्धिसहकृतेन्द्रियमाह्यत्वात् अनुपलब्धिग्राह्यः इत्युपचर्य
 
वृ० ५।१।३० ) । अनुपलब्धिर्द्विविधा । अज्ञाता ज्ञाता च । तंत्रज्ञाता-
नुपलब्धिस्थले इन्द्रियेणैवाभावग्रहः । तावत्पर्यन्तमिन्द्रिय व्यापारस्य विक
मानत्वात् । अनुपलब्धिस्तु सहकारिमात्रम् । ज्ञातानुपलब्धिस्थले स्वद
मानम् इति नानुपलब्धिर्मानान्तरम् ( त० व० ९९ ) । यत्र त्वज्ञाता
अनुपलब्धि: कारणं तत्प्रत्यक्षम् । ज्ञातानुपलब्धिजन्या भावज्ञानस्यानुमान-
त्वम् ( कु० व्या० ३।३९ ) ।
 
-
 
अनुपलब्बिसमः - (जाति: ) [ क ] सदनुपलब्धेरनुपलम्भादभावसिद्धौ
तद्विपरीतोपपत्तेरनुपलब्धिसमः ( गौ० ५ । १ । २९ ) । प्रतिकूलतर्कदेश-
नाभासोयमिति ज्ञेयम् ( गौ० दृ० ५/११२९ ) । [ ख ] अनुपलब्धेर-
प्यनुपलब्धिस्तस्या अप्यनुपलब्धिरित्येवंरूपेण प्रत्यवस्थानमनुपलब्धिसमः ।
नैयायिकैस्तावच्छन्दानित्यत्वमेव साध्यते । यदि शब्दो नित्यः स्यादु-
बारणाप्राक कुतो नोपलभ्यते । न हि घटाचावरणकुड्यादिवत् शब्दस्या-
वरणमस्ति तदनुपलब्धेरिति । तत्रैवं जातिवादी प्रत्यवतिष्ठते । यथावरणा-
नुपलब्धेरावरणाभावः सिष्यति तदा आवरणानुपलब्धेरप्यनुपलम्भादावर-
मानुपलब्धेरध्यभावः सिष्येत् । तथा चावरणानुपलब्धिप्रमाणक भाव-
म्या० को ४