This page has not been fully proofread.

न्यायकोशः ।
 
अतीतस्वमनद्यतनत्वं परोक्षत्वं च लिडर्थः ( तर्का० ४ पृ० ११) ।
यथा जुगोप गोरूपधरामिवोर्वीम् ( रघु० २१३ ) इत्यादौ लिडर्थः ।
अत्र सूत्रम् परोक्षे लिट् (पा० सू० ३/२/१९१५ ) इति । तदर्थस्तु
अनघतने भूते परोक्षेर्थे लिट् भवति इति । तेन अद्यतने भूते अनद्यतने
भविष्यति भूतेप्यपरोक्षे च न लिप्रयोगः स्यात् । अत्र परोक्षत्वं च
साक्षात्करोमि इत्येतत्प्रतीति साक्षिकलौकिक विषयत्वाभाववत्त्वम् । तेन
उपनीतक्रियायां यथाश्रुतप्रत्यक्षा विषयत्वरूपस्य परोक्षत्वस्याभावेपि न
पपाच इत्यादिप्रयोगानुपपत्तिः ( वै० सा० द० ल० पृ० १२४ ) ।
अत्र परोक्षत्वातीतत्वयोर्लिंडर्थयोरन्वयस्तु लुङर्थवदुत्पत्तौ ज्ञेयः ( तर्का०
४ पृ० ११ ) ।
 
७१६
 
-
 
लिपिः - शब्दस्मारकः शब्दानुमापको वा रेखाविशेष: ( म०प्र० ४
पृ० ६६ ) । यथा क इति रेखा प्रजापति इति शब्दस्य स्मारिका ।
केचित्तु लिपि प्रमाणान्तरं मन्यन्ते । लिपिभेदास्तु तत्तद्देशभेदेन देव-
नगरीप्रन्थाक्षरलिप्यादयो बहवः । अत्र सिद्धान्त विदस्तु लिपिस्तु शब्द-
स्मारकतया शब्दानुमापकतया वा प्रमायामुपयोगिनी न तु प्रमाणान्तरम्
इत्याहुः । अनुमानं च अयं पुरुषः घटमानय इति शब्दविषयकाभि-
प्रायवान् घटमानय इति शब्दव्यञ्जकलिपिकर्तृत्वात् यथा अहम् इति ।
अस्मादनुमानात् घटमानय इति शब्दस्यानुमितिर्भवति । ततोर्थप्रत्ययः
इति ज्ञेयम् ( म० प्र० ४ पृ० ६६ ) ।
 
लुङ् – (तिङ् ) कृतवधादेशस्य हन्तेरर्थे अथ वा सिजन्तस्य धातोरर्थे या
अतीतत्वस्य बोधिका तादृशी तिङ् लुङ्शब्देनोच्यते । यथा अवधीत्
अवधिष्टाम् अवधिषुरित्यादौ अपाक्षीदित्यादौ च लुङ् ( श० प्र०
लो० १०३ पृ० १६१ ) । यथा वा घटोभूदित्यादौ (वै० सा०
ल० पृ० १४७ ) । जघान हन्ति स्म इत्यादौ लिड्लडादिको हन्तेरर्थे
अतीतत्वस्य बोधकोपि न कृतवधादेशस्य न वा सिजन्तस्य इति न
तत्रातिप्रसङ्गः । वध्यात् वध्यास्ताम् वध्यासुः इत्यादौ कृतवधा देशस्य
तस्यार्थे स्वार्थानुभाविकापि आशी: नातीतत्वस्य बोधिका इति न तत्राति-