This page has not been fully proofread.

न्यायकोशः ।
 
वह्निव्याप्यधूमवान्पर्वतो
 
वह्निमान् इत्यनुमितिर्भवति न तु केवल: पर्वतो
वह्निमान् इति । इदं चोदयनाचार्याणां मतम् । तन्मते सर्वत्र तादृश-
हेतुविशिष्ट: पक्षः साध्यवान् इत्याकारैवानुमितिर्भवति इति विज्ञेयम् ।
अयं भावः । आचार्याणां मते हेतोः सर्वत्रैव धर्मितावच्छेदकतया
भानात् पर्वतत्वाद्यवच्छेदेन हेतुमत्ताज्ञानस्थलेपि ( वहिव्याप्यघूमवान्पर्वतः
इति परामर्शेपि ) बहिव्याप्यधूमविशिष्टपर्वतो वह्निमान् इत्याकारिकैवानु-
मितिर्भवति इति ( ग० २ सामान्यनि० पृ० ४ ) ।
 

 
लिट् – (तिङ् ) [ क ] द्विरुक्तभिन्नधात्वर्थे स्वार्थस्यान्वयबोधने । या न
योग्या तादृशी तिङ् लिट्पनाभिधीयते ॥ यथा जघान जन्नतुरित्यादौ
लिट् । अत्र द्विरुक्तस्यैत्र धातोरर्थे स्वार्थान्वयं प्रत्यया बोधयन्ति इति तत्र
लक्षणसमन्त्रयो बोध्यः । अशिश्रियत् अदुद्रुवत् इत्यादौ द्विरुक्तस्येव
अपाक्षीत् इत्यादौ द्विरुक्तान्यस्यापि धातोरर्थे स्वार्थान्वयं लुङादयो
बोधयन्ति । अतो न लुङादावतिप्रसङ्गः । पिपक्षति पापच्यते इत्यादौ
च सनादयस्तादृशा द्विरुक्तस्यैव धातोरर्थे स्वार्थान्वयबोधका अपि न तिङ:
इति न तत्रातिप्रसङ्गः । अत्र प्रकृत्यर्थे वर्तमानत्वाद्यनाकाङ्क्षत्व इति
विशेषणं देयम् । तेन पचे पचावहे पचावः इत्यादौ न लडाद्यतिप्रसङ्गः ।
[ ख ] द्विरुक्तस्य यजेरर्थे चकास्तेराम्युतस्य वा । या स्वार्थस्यान्वये
हेतुः सा वा लिट् कथ्यते बुधैः ॥ जुहोतीत्यादौ द्विरुक्तस्य धातोरर्थे
स्वार्थबोधकोपि लडादिः न यजेरर्थे इति न तत्र लडादावतिप्रसङ्गः ।
यथा काशांचक्रे लोलूयामास ईक्षांबभूवेत्यादौ मनश्चचाल सुरभिभाग
आजगाम इत्यादौ च लिट् । अत्र अतीतः काल इव धात्वर्थनिष्ठं
परोक्षत्वमपि लिटोर्थः । तच्च परोक्षत्वम् अतीन्द्रियत्वम् । तेन अतीत-
कालवृत्त्यतीन्द्रिय चलनवन्मनः इत्याकारकस्तत्र बोध: ( श० प्र०
श्लो० १०५ टी० ५० १६२ ) । अत्र चैत्रश्चारु पपाच व्यातेने
किरणावलीमुदयनः इत्यादौ लिटि लक्षणसमन्वयश्चिन्त्यः । चिन्ताबीजं
तु कलिङ्गे दृष्टोसि नाहं कलिङ्गान् जगाम इत्यत्रेव पूर्वोक्तस्थलयोरपि
लिट्साधुत्वोपपादकं सूत्रान्तरमेव इति (ग० व्यु० ल० पू० १३९) ।