This page has not been fully proofread.

न्यायकोशः ।
 
शास्त्रज्ञादयस्तु पुंसः असाधारणमिन्द्रियम् ( उपस्थ: ) इत्याहुः ।
८ चिह्नम् शिवलिङ्गं चेति काव्यज्ञाः पौराणिकावाहुः । ९ उपक्रमोप-
संहारावभ्यासोपूर्वता फलम् । अर्थवादोपपत्ती च लिङ्गं तात्पर्य निर्णये ॥
( वेदान्तसारः ) ( सर्व० सं० पृ० ४०५ शां० ) । इदमेव लिङ्गषटू-
मित्युच्यते ।
 
लिङ्गाभासत्वम् – १ अङ्गवैकल्यम् । २ दुष्टलिङ्गस्वम् ।
 
लिङ्गि - १ साध्यम् ( दीधि ० २ ) । यथा लिङ्गाविषयकलिङ्गिविषयक -
ज्ञानजनकन्यायावयवत्वम् प्रतिज्ञालक्षणम् ( चि० २ अव० पृ० ७७ )
इत्यादौ लिङ्गिशब्दार्थः साध्यम् । यथा वा तलिङ्गलिङ्गि पूर्वकम्
(सांख्यका० ५) इत्यादौ । अत्र लिङ्गि इत्यस्य लिङ्गज्ञानज्ञेयम् इत्यर्थो
ज्ञेयः । २ पक्षः । ३ पक्षधर्मताज्ञानम् । अत्रार्थे लिङ्गमस्यास्ति इति
विग्रहोपि ज्ञेयः (सांख्य० कौ० लो० ५ पृ० १०) ।
 
७१४
 
लिङ्गोपघानम् - लिङ्गोपहिते पक्षे लैङ्गिकस्य साध्यस्य भानम् । अत्र
विग्रहः । लिङ्गस्य हेतोः उपधानम् पक्षे वैशिष्ट्यम् इति । लिङ्गोपहिते
इत्यस्य लिङ्गेन व्याप्तिपक्षधर्मता विशिष्टेन हेतुना उपहितः विशिष्टः
तस्मिन् इति विग्रहः । तथा च साध्यानुमानाङ्गहेतुयुक्ते पक्ष इत्यर्थः ।
यथा शुद्धपर्वतपक्षकेपि वहिसाध्यके घूमहेतुके स्थले पर्वतो वह्निमान्
धूमादित्यादौ वह्निव्यायधूमविशिष्टे पर्वते वद्देर्भानम् वह्निव्याप्यघूमवा-
पर्वतो वह्निमान् इति । तथा हि वद्दिव्याप्यो हि धूमो वहेर्लिङ्गम् । तद्वति
पक्षे वहेर्भानम् । वहिव्याप्यघूमवान्पर्वतः इति परामर्शोत्तरं जायमाना-
नुमितौ ज्ञानलक्षणया तादृशपक्षभानस्यावश्यकत्वात् । तथा च वह्नि-
व्याप्यधूमषान् पर्वतो वह्निमान् इत्येव तत्रानुमितेराकारः इति विज्ञेयम् ।
लिङ्गोपधानमतम् – लिङ्गोपहित
लैङ्गिकमानम् इत्यभिमतम् । अत्र व्युत्पत्तिः
लिङ्गस्य व्याप्तिपक्षधर्मता विशिष्टहेतोः उपधानम् भानम् वैशिष्ट्यं वा
अर्थात् पक्षे भवति इति मतम् । लिङ्गोपहितेत्यस्यार्थश्च लिङ्गोपहिते
लिङ्गविशिष्टे पक्षे लैङ्गिकस्य साध्यस्य भानं भवति इति । यथा शुद्ध-
पर्वतत्वावच्छिन्न पक्षकवह्विसाध्यकस्थले पर्वतो बद्दिमान्धूमादित्यादावपि
 
-