This page has not been fully proofread.

न्यायकोशः ।
 
अत्र पुरोडाशसदनभूतं बर्हिः खण्डयामि इति श्रुतपदसामर्थ्यात् बर्हि-
र्देवसदनं दामि इति मन्त्रस्य कुशकाशादिरूपाणां मुख्यबर्हिषां लवना-
ङ्गत्वम् । न तु समाख्यातो दर्भसदृशानामुलपादिरूपतृणविशेषाणां गौण-
बर्हिषां लवनाङ्गत्वम् इत्यर्थः ( लौ० भा० टी० पृ० २१ ) । अथ वा
दामि इति पदस्य दा लवने इत्यस्माद्धातोः सिद्धस्य छेदनप्रकाशन-
सामर्थ्यात् बर्हिः इत्यस्य चास्तृतदर्भप्रकाशनसामर्थ्यात् दर्भच्छेदने
समुदायमन्त्रस्य विनियोगोत्रगम्यते ( तत्त्वबोध ० ) ( वाच० ) । सुवेणा-
वद्यतीत्यत्र अवदानसामान्यशेषत्वावगमेपि स्रुवस्य लिङ्गात्सामर्थ्यरूपात्
आज्यसांनाय्यादिद्रवद्रव्यावदान विशेषाङ्गत्वम् । स्रुवेण मांसादिद्रव्यावदा-
नस्य कर्तुमशक्यत्वात् इति । ऐन्द्या गार्हपत्यमित्यत्र मन्त्रस्य प्राप्तार्थत्वेना-
नुवादकत्व संभवात् मन्नस्थेन्द्रपदस्यैव इदि परमैश्वर्ये इति धात्वनुसारादै-
श्वर्यगुणयोगादग्नौ लक्षणा इति गार्हपत्यप्रकाशने समर्थमेव म ऐन्द्या
इति तृतीया श्रुतिर्गार्हपत्योपस्थाने विनियुके ( लौ० भा० टी० पृ० २१ )
इति । मीमांसकाभिमतमिदं च लिङ्गं विनियोगविधेः सहकारि भवति
इति विज्ञेयम् ( लौ० भा० पृ० १६ ) । ६ स्वरूपम् । यथा
सप्तदशावयवो लिङ्गदेहः इत्यादौ सप्तदश सूक्ष्मदेहस्य लिङ्गम् इत्याहुः ।
अत्र सूत्रम् सप्तदशैकं लिङ्गम् (सांख्य० सू० अ० ३ सू० ९) इति ।
तदर्थश्च सूक्ष्मशरीरमप्याघाराधेयभावेन द्विविधं भवति । तत्र सप्तदश
मिलित्वा लिङ्गशरीरम् । तच्च सर्गादौ समष्टिरूपमेकमेव भवतीत्यर्थः ।
एकादशेन्द्रियाणि पञ्च तन्मात्राणि बुद्धिश्च इति सप्तदश । अहंकारस्य
बुद्धावेवान्तर्भावः (सांख्य० भा० ३१९ ) इति । अत्रोक्तम् वासना
भूतसूक्ष्मं (तन्मात्रा ) च कर्मविद्ये तथैव च । दशेन्द्रियं मनो बुद्धिरेत-
लिङ्गं विदुर्बुधाः ॥ ( वाशिष्ठे० ) इति । कर्मात्मा पुरुषो योसौ बन्ध-
मोक्षैः प्रयुज्यते । स सप्तदशकेनापि राशिना युज्यते च सः ॥ ( भार•
मोक्षधर्मे ) ( सांख्य० मा० ३१९) इति । अत्रेदं बोध्यम् । सांख्यमते
लिङ्गशरीरस्यैव सुखदुःखकार्यकत्वम् । कुतः । एकस्य लिङ्गदेहस्यैष सुख-
दुःखाख्यभोगात् । न तु स्थूलशरीरस्य । मृतशरीरे सुखदुःखाद्यभावस्य
सर्वसंमतत्वात् (सांख्य० मा० अ० ३ सू० ८) इति । ७ धर्म-
९० न्या० को ●
 
-