This page has not been fully proofread.

न्यायकोशः ।
 
तथात्वेन गुणगतविशेषाच्छन्देषु लिङ्गविशेषः इति कल्प्यते । स च
विशेष: शास्त्रे इत्थमभ्यधायि । विकृतसत्त्वादीनां तुल्यरूपेणावस्थाना-
नपुंसकत्वम् । सत्त्वस्याधिक्ये पुंस्त्वम् । रजस आधिक्ये स्त्रीत्वम् इति ।
एवं च लिङ्गस्य शब्दधर्मत्वेपि शब्देन सहार्थाभेदारोपात् असति बाधके
अर्थेपि साक्षात् तत्पारतध्येण वा सर्वत्र तस्य विशेषणत्वम् ( वाच० ) ।
अथ वा सत्त्वरजस्तमोगुणानां साम्यावस्था नपुंसकत्वम् । आधिक्यं
पुंस्त्वम् । अपचयः स्त्रीत्वम् । तत्तच्छब्दनिष्ठं तत्तच्छब्दवाच्यं च ।
तमेव विरुद्धधर्ममादाय तटादिशब्दा मिद्यन्ते (वै० सा० नामार्थ ०
पृ० २२४ ) इति । अत्रेदं बोध्यम् । पुंलिङ्गः शब्दः इति व्यवहारात्
स्वमोर्नपुंसकात् ( पा० सू० ७।१।२३ ) इत्यत्र शब्दस्यैव नपुंसकत्व-
व्यपदेशात् दारान् इत्यादौ पुंस्त्वान्वयबाधाच्च लिङ्गस्य शब्दधर्मत्वम् इति ।
तटा दिशब्दानामनेकलिङ्गत्वव्यवहारः समानानुपूर्वीकत्वेनैव शब्दानाम-
भेदारोपात् । वस्तुतः तेषां भिन्नानामेव भिन्नलिङ्गत्वमिति । अत्र महा-
भाष्यम् एकार्थे शब्दान्यत्वात् दृष्टं लिङ्गान्यत्वम् इति दिक् ( वाच० ) ।
इदं शाब्दिकमतम् । पुंस्त्वादयस्तिस्रो जातयः इति वैशेषिका आहुः ।
पुंस्त्वादि शब्दनिष्ठम् इति प्राञ्च आहुः । पुंस्त्वादिलिङ्गमर्थनिष्ठमेवेति
नव्यवैयाकरणा आहुः । पुंस्त्वादिलिङ्गस्यार्थनिष्ठत्वे प्रमाणं च इयं व्यक्तिः
इदं वस्तु अयं पदार्थः इति व्यवहारा अप्रतिबद्धप्रसराः इति । अत्रेद-
माकूतम् पुष्यः तारका नक्षत्रम् इति शब्दनानात्वदर्शनात्स्तन केशाद्यति-
रिक्तमेव लिङ्गमर्थनिष्ठम् इति ( ल० म० ) ( बै० सा० द० नामार्थ ०
पृ० २२५ ) । अत्रोक्तम् स्त्रीलिङ्गमपि पुलिङ्गं की बलिङ्गमिति त्रिधा ।
शब्दसंस्कारसिद्ध्यर्थ भाषया नाम भिद्यते ॥ (श० प्र० श्लो० ५३ ) इति ।
अधिकं तु स्त्रीलिङ्गम् इत्यादितत्तच्छब्दे द्रष्टव्यम् । ५ मीमांसकाञ्च
अर्थप्रकाशनसामर्थ्य लिङ्गम् इत्याहुः । सामर्थ्य द्विविधम् शब्दगतं साम-
र्थ्यम् अर्धगतं सामर्थ्य च । तत्राद्यम् बर्हिर्देवसदनं दामि इति । द्वितीयं
तु स्रुवेणावयति इति । एवम् ऐन्द्या गार्हपत्यमुपतिष्ठते स्योनं ते सदनं
कृणोमि इत्यादिकानि लिङ्गस्योदाहरणानि ज्ञेयानि । अत्रोक्तम् सामर्थ्य
सर्वशब्दानां लिङ्गमित्यभिधीयते इति । क्षमता च लिङ्गम् इति च (वाच०) ।
 
OPR
 
-