2023-02-20 00:56:31 by ambuda-bot
This page has not been fully proofread.
न्यायकोशः ।
७११
फलवत्त्वमुपलभ्य वर्णाश्रमिणामपि दृष्टं प्रयोजनमनुद्दिश्य प्रवर्तमानानां
फलानुमानम् इति । अत्रेदं बोध्यम् । यत्र घूमस्तनाग्निः इति अन्यभावे
घूमो न भवति इत्येवं प्रसिद्धसमयस्यासंदिग्धधूमदर्शनात् साहचर्यानु-
स्मरणादनन्तर मध्यभ्यवसायो भवति इति तत्र लिङ्गदर्शनं प्रमाणम् ।
प्रमितिरग्निज्ञानम् । अथ वा अग्निज्ञानमेव प्रमाणम् । प्रमितिरन्नौ गुणदोष-
माध्यस्थप्रदर्शनम् । तत्स्वनिश्चितार्थमनुमानम् ( प्रशस्त ० पृ० ४४-४५)।
लिङ्गशब्दे व्युत्पत्तिस्तु व्याप्तिबलेन लीनमर्थे गमयति इति लिङ्गम्
( सि० च० २ पृ० २५ ) ( गौ० वृ० ) । अथवा लिङ्ग्यते गम्यते
अनेनार्थः इति लिङ्गम् (न्या० बिन्दु०प० २ पृ० २१ ) । [ ख ]
यदनुमेयेन सहचरितं तत्समानजातीये च सर्वत्रासर्वत्र वा सामान्येन
प्रसिद्धम् तद्विपरीते च सर्वस्मिन्नसदेव तत् लिङ्गम् । अत्रोक्तम् अनुमेयेन
संबद्धं प्रसिद्धं च तदन्विते । तदभावे च नास्त्येव तल्लिङ्गमनुमापकम् ॥
विपरीतमतो यत्स्यादेकेन द्वितयेन वा । विरुद्धासिद्धसंदिग्ध मलिङ्गं
काश्यपोब्रवीत् ॥ इति । काश्यपः कणादः । तदर्थश्च यदनुमेयेनार्थेन
देशविशेषे कालविशेषे च सहचरितम् अनुमेयधर्मान्विते चान्यत्र सर्व-
स्मिन्नेकदेशे वा प्रसिद्धम् अनुमेयविपरीते च सर्वस्मिन् प्रमाणतोसदेव
तदप्रसिद्धस्यार्थस्यानुमापकं लिङ्गं भवति इति । यत्तु यथोक्तात्रिरूपा
लिङ्गादेकेन वर्मेण द्वाभ्यां वा विपरीतम् तदनुमेयस्याधिगमे लिङ्गं न
भवति इति आह सूत्रकार: अप्रसिद्धोनपदेशोसन् संदिग्धश्चानपदेशः
(वै० ३११/१५) ( प्रशस्त ० २ पृ० २७,४४,४६) इति ।
२ सांख्यमते महत्तत्त्वादिकार्यजातं लिङ्गमुच्यते । अस्मिन्नर्थे व्युत्पत्तिस्तु
लियं लयं गच्छति प्रधाने इति लिङ्गम् । पृषोदरादित्वात्साधुत्वम् ।
३ लक्षणम् । यथा युगपज्ज्ञानानुत्पत्तिर्मनसो लिङ्गम् (गौ० १/१/१६)
इत्यादौ ज्ञानकारणास्वं मनसो लिङ्गम् ( गौ० दृ० १११११६ )
इत्यादौ । ४ वैयाकरणास्तु शब्दसाधुताप्रयोजको धर्मः । स च
प्राकृतगुणगतावस्थात्मको धर्मः । तद्विशेषश्च पुंनपुंसकत्वादिः इत्याहुः
( शब्दार्थर०) । तथा हि । सर्वेषां त्रिगुणप्रकृतिकार्यतया शब्दानामपि