2023-02-20 00:56:30 by ambuda-bot
This page has not been fully proofread.
न्यायकोशः ।
७०९
इत्यादि । अत्र धातोः यदि इत्यस्य वा निरूढलक्षणया भेदोर्थः । तेन
घूमवद्भेदाश्रयतावान् हृदः इत्यर्थः । एवम् गुणत्वं यदि घटे स्याद्रव्ये
स्यात् इत्यादौ तु धातोरत्यन्ताभाव एवार्थ: । तदुत्तरलिङस्तु पूर्ववत्
आश्रयत्वम् अर्थः । तथा च घटवृत्तित्वाभावबद्गुणत्वं घटवृत्तित्वव्यापकी-
भूतस्य द्रव्यवृत्तित्वस्याभाववत् इत्येवं तत्र बोध: ( श० प्र० श्लो० १००
टी० पृ० १५५ ) । (६) जन्यत्वेर्थे लिङ् यथा यो ब्राह्मणायाबगुरेचं
शतेन यातयात् इत्यादि । अत्र हेतुहेतुमतोर्लिङ् (पा० सू० ३।३।१५६)
इत्यनुशासनात् यः शतयातना हेतुब्राह्मणावगोरणवान् तदीयशतयातनं
ब्राह्मणावगोरणजन्यम् इत्याकारको बोध: । अवगोरणं हन्तुमुद्यमः ।
अत्र शाब्दिकमते तु शाब्दबोधः यत्कर्तृको ब्राह्मणोद्देश्यको वधोधमः
तस्कर्मिका तादृशवधोद्यमजन्या शतसंवत्सरयातना इत्याकारको द्रष्टव्यः
( वै० सा० ८० पृ० १४६ ) । प्राभाकरास्तु अत्र जन्यजनकभावो
न लिडर्थ: । अपि तु पौर्वापर्यमात्रं लिडर्थ: । पश्चात्तस्य कल्पनात् ।
अन्यथा दुरितापूर्वस्य वाच्यत्वापत्तेः इत्याहुः ( श० प्र० श्लो० १००
टी० पृ० १५८) । (७) अधीष्टार्थे लिङ् यथा माणवकमध्यापये-
द्भवान् इत्यादि । अधीष्टश्च सत्कारपूर्वको व्यापारः । तथा च माणवक-
मध्यापयेद्भवानित्यादौ अध्यापना दिव्यापारे संमानपूर्वकप्रवृत्त्यनुकूलो
व्यापारः इत्यर्थः । अयमेव अभ्यर्थना इत्युच्यते । अत्र संमानपूर्वम-
ध्यापनादिव्यापार इष्टसाधनम् इति बोध: (वै० सा० ८० पृ०
१३१–१३२ ) । (८) संप्रश्ने ( संप्रधारणे ) लिङ् यथा किं भो
वेदमधीयीय उत तर्कमधीयीय इत्यादि (काशिका ० पा० सू० ३/३/१६१
पृ० १८१ ) । आशिषि लिङ् यथा चिरं जीव्याद्भवान् । यथा वा
अव्यादजोडिमणिमांस्तव जान्वथोरू यज्ञोच्युतः कटितटं जठरं यास्यः
( भाग० स्क० १० अ० ६ श्लो० २२) इत्यादि ।
-
लिङ्गपरामर्शः – परामर्शशब्दवदस्यार्थोनुसंधेयः । अत्रेदं बोध्यम् । लिङ्ग-
परामर्शोनुमानम् इति वार्तिककारसिद्धान्तः । एके तावद्वर्णयन्ति लिङ्ग-
लिङ्गिसंबन्धस्मृतिरनुमानम् इति ( न्या० वा० ११११५५० ४७) ।