This page has not been fully proofread.

न्यायकोशः ।
 
लिङ् द्विविधा विधिलिङ् आशीर्लिङ् चेति ( तर्का० ) ( सि० च० ) ।
तत्र विध्याद्यर्थबोधिका लिङ् विधिलिङ् । भाशीर्मात्रबोधिका लिङ् आशी-
र्लिङ् । विध्यादयो लिङर्थास्तु विधिः निमन्त्रितत्वम् आमन्त्रितत्वम् प्रार्थना
आश्रयत्वम् जन्यत्वम् अधीष्टः संप्रश्नः इत्यादयो ज्ञेयाः । अत्र सूत्राणि
विधि निमन्त्रणामन्त्रणाधीष्टसंप्रश्नप्रार्थनेषु लिङ् ( पा० सू० ३।३।१६१ )
हेतुहेतुमतोर्लिङ् (पा० सू० ३/३/१५६) आशिषि लिङ्लोटौ
(पा० सू० ३।३।१७३) इत्यादीनि विध्याद्यर्थपरत्वेन योज्यानि । अत्र
वैयाकरणा आद्भुः । विधिनिमन्त्रणामन्त्रणाधीष्टानां चतुर्णामनुगतप्रवर्तना-
स्वेन बाध्यता । उक्तं च भर्तृहरिणा अस्ति प्रवर्तनारूपमनुस्यूतं चतु-
र्ष्वपि । तत्रैष लिङ् विधातव्यः किं भेदस्य विषक्षया ॥ (वै० सा० ल०
पृ० १३२ ) इति । अत्रेदं बोध्यम् । प्रवर्तनात्वं च प्रवृत्तिजनक-
ज्ञानविषयतावच्छेदकत्वम् । तच्चेष्टसाधनत्वस्यास्तीति तदेव विध्यर्थः
(बै० सा० पृ० १३३) इति । अत्र यथाक्रममुदाहरणानि प्रदर्श्यन्ते । तत्र
( १ ) विधावर्थे लिङ् यथा यजेत पचेत भवान् ग्रामं गच्छेत् इत्यादि ।
अत्र नव्यनैयायिकमते इष्टसाधनत्वादिकं विध्यर्थ: ( श० प्र० श्लो०
१०० ) इति । अत्रेष्टत्वं च समभिव्याहृतपदोपस्थापितकामना विषयत्वम्
( ग० व्यु० ल० ) (वै० सा० द० ल० पृ० १३३ ) । अत्राधिकं
तु विधिशब्दव्याख्यानावसरे संपादयिष्यते । तत्तत्र द्रष्टव्यम् । द्वेषवि-
षयतावच्छेदकत्वोपलक्षित नरकत्वाद्यवच्छिन्नसाधन तात्वावच्छिन्नप्रतियोगि-
ताकाभावो विध्यर्थः इति प्राचीननैयायिका आहुः । आचार्यास्तु आत्मा-
भिप्रायो विध्यर्थः । पाकं कुर्या: पाकं कुर्याम् इति मध्यमोत्तमपुरुष-
योर्टिङ इच्छाविशेषात्मकाज्ञाध्येषणानुशाप्रश्नप्रार्थनार्थकतया प्रथमपुरुषेपी-
च्छायामेकशक्तेरुचितत्वात् इत्याहुः (वै० सा० ५० ल० पृ० १४५ ) ।
(२) निमत्रितत्वे लिङ् यथा श्राद्धे भुञ्जीत भवान् इह भुञ्जीथास्त्वम्
इत्यादि । (३) आमन्त्रितत्वे ( कामचारकरणे ) लिङ् यथा भवानि -
हासीत पुत्रोत्सवे भवान् भुञ्जीत इत्यादि । ( ४ ) प्रार्थनायां लिङ् यथा
भोजनं लभेय घेनुं दद्यास्त्वमस्मभ्यम् भवति मे प्रार्थना व्याकरणमधी-
यीय इत्यादि । (५) आश्रयस्वे लिङ् यथा हृदो यदि धूमवान् स्यात्