2023-02-20 00:54:05 by ambuda-bot
This page has not been fully proofread.
२४
न्यायकोशः ।
अनुपकारसमः - ( जाति: ) कार्यकारणभावस्योपकार नियतत्वेनवस्था ।
असिद्धदेशनाभासोयम् ( गौ० वृ० ५ । १२ । ३७ ) । इयं जातिः सूत्रानुक्ता
वृत्तिकारेण वृत्तावुच्यते कार्यसम इत्यनेनोपलक्ष्यते चेति बोध्यम् ।
अनुपधा – श्रद्धामनः प्रसादादयः । एते धर्मजनका: ( त० व० १३२ ) ।
अनुपपत्तिः - उपपत्त्यभावः । यथा पीनत्वान्यथानुपपत्तिरित्यादौ ।
अनुपलब्धिः - ज्ञानकरणाजन्याभावानुभवासाधारण कारणमनुपलब्धिरूपं
प्रमाणम् । अस्यार्थः -ज्ञानरूपं यत्करणं तदजन्यो योभावानुभवो नामा-
भावज्ञानं तस्य यदसाधारणं कारणं तदनुपलब्धिरूपं प्रमाणं बोध्य-
मिति । अनुमानादिना जन्योत एवातीन्द्रियो योभावानुभवस्तस्य हेतुभूते-
नुमानादावतिव्य। प्तिवारणायाजन्यान्तम् । अदृष्टादौ साधारणकारणेतिष्या-
तिवारणायासाधारणेति । अभावस्मृत्यसाधारणहेतौ संस्कारेतिव्याप्तिवार-
णायानुभवेति विशेषणम् । एवं च घटादिज्ञानाभावो घटाद्यभावज्ञाने
कारणमिति फलितोर्थः । तथा च घटाभाववति भूतले घटज्ञानाभावाद्ध-
टाभावस्य ज्ञानं भवति । आत्मनि धर्माधर्माचनुपलब्धिसत्त्वेपि तदभावा-
निश्चयेन योग्यानुपलब्धेरेवाभावग्राहकत्वं बोध्यम् । अनुपलब्धेर्योग्यता
च तर्कितप्रतियोगिसत्त्वप्रसञ्जित प्रतियोगिकत्वरूपा । अस्यार्थः-तर्कितं
यत्प्रतियोगिसत्त्वं तेन प्रसजित आपादितः प्रतियोगी यस्य तस्य भावस्त-
त्वमिति । तथा च स्फीतालोकवति भूतले यदि घटः स्यात्तदा घटोप-
लम्भः स्यादित्यापादनसंभवात्तादृशभूतले घटाभावोनुपलब्धिगम्यः ।
अन्धकारे तु तादृशापादनासंभवान्नानुपलब्धिगम्यता । अत एव स्तम्मे
तादात्म्येन पिशाचसस्त्रे स्तम्भवत्प्रत्यक्षतापत्या तदभावोनुपलब्धिगम्यः
स्तम्भः पिशाचो नेति । आत्मनि धर्माधर्मादिसखेपि तस्यातीन्द्रियतया
निरुक्तोपलम्भापादनासंभवान्न धर्माद्यभावस्थानुपलब्धिगम्यत्वम् । ननूक्त-
रीत्याधिकरण इन्द्रियसंनिकर्षस्थले अमावस्यानुपलब्धिगम्यत्वं तषानुम-
तम् । तत्र च कृप्तेन्द्रिय मेवाभाषाकारवृत्तावपि कारणम् । इन्द्रियान्वय
व्यतिरेकानुरोधादिति चेत् न । प्रतियोग्यनुपलब्धेरभावग्रहे हेतुत्वेन
कृतत्वात्करणत्वमात्रस्य कल्पनात् । इन्द्रियस्य चामावेन समं संनिक-