2023-02-20 00:56:30 by ambuda-bot
This page has not been fully proofread.
न्यायकोशः ।
७०७
लाक्षणिक:- -१ लक्षणया अर्थबोधकः शब्दः । यथा गङ्गायां घोषः प्रवस-
तीत्यादौ गङ्गाशब्दः । अत्राधिकं तु लक्षकशब्दव्याख्याने द्रष्टव्यम् ।
२ लक्षणयुक्तः ।
लाघवज्ञान सहकृतानुमितिः - (अनुमितिः ) सामान्यधर्मावच्छिन्नस्य सा-
-
ध्यत्वे सामान्यधर्मावच्छिन्नव्याप्यवत्तापरामर्शाद्विशेषधर्मे लाघवज्ञानसह-
कृताज्जायमाना विशेषधर्मावच्छिन्नविधेयकानुमितिः । यथा पर्वते धूमेन
शुद्धवह्निसाधनेपि पर्वतो महानसीयवह्निमान् इत्यनुमितिः । अत्रेदं बोध्यम् ।
वहिव्याप्यघूमवान् पर्वतः इति परामर्शादपि महानसीयवहौ लाघवम्
इति लाघवज्ञानबलान्महानसीयवदित्वादिना वह्नयनुमितिः पर्वतो महान-
सीयवह्निमान् इति जायते ( त० प्र० ख० ४ पृ० १३० ) इति ।
अस्मद्गुरुचरणास्तु वर्महानसीयत्वे लाघवम् इति लाघवज्ञानसत्त्रे वह्नि-
व्याप्यधूमवान्पर्वतः इति परामर्शात् पर्वतो महानसीयवद्धिमान् इत्यनु-
मितिर्जायते इति प्राहु: । एवम् इतरबाधग्रहसहकारसत्वेप्यनुमितिर्भवति ।
सा च इतरबाधग्रहसहकृतानुमितिशब्दे दृश्या ।
लाघवम् – १ लघुत्वशब्दबदस्यार्थोनुसंधेयः । २ तर्कविशेष विषयः इति
प्राच आहुः ( सर्व० सं० पृ० २३९ अक्ष० ) । ३ आरोग्यम् इति
भिषज आहुः ( राजनि० ) ।
लाभ: - १ स्वत्वावच्छिन्नो व्यापारः । यथा धनं लभते प्राप्नोति इत्यादौ
धात्वर्थः । अत्र धात्वर्थनिविष्टे स्वत्वे धनादेराधेयत्वेनान्वयः ( श० प्र०
श्लो० ७२ टी० पृ० ९७ ) । २ विधीयमानमुपायफलं लाभ:
( सर्व० सं० पृ० १६२ नकु० ) ।
-
लिङ् – (तिङ् ) विध्याद्यन्यतमस्यान्वयबोधं प्रति समर्था लटो लोटश्च भिन्ना
तिङ् लिङुच्यते । पटमानय इत्यादौ सप्तमं पदं गृह्णाति इत्यादौ च विधिं
बोधयन्त्यावपि लोट्लटौ न ताभ्यां भिन्ने इति यष्टव्यम् देयम् इत्यादौ तु
तव्यादिकं कार्यत्वादिकं बोधयदपि न तिङ् इति न लोट्लटोस्तव्यादौ
चातिप्रसङ्गः । भावित्वाद्य प्रत्यायकत्वेन विशेषणाच पच्यात् इत्यादावाशी-
र्लिङि न प्रसङ्गः ( श० प्र० श्लो० १०० टी० पृ० १४६ - १४७) ।