2023-02-20 00:56:30 by ambuda-bot
This page has not been fully proofread.
न्यायकोशः ।
धिकरणकालः । यथा पचतीत्यादी लडर्थः (ग० व्यु० ल० ) । अत्र
लडर्थवर्तमानत्वं चाख्यातार्थकृत्याद्यन्वयि तत्तत्कालवृत्तित्वमेव ( श० प्र०
लो० ९७ टी० पृ० १४२ ) । शाब्दिकास्तु प्रारब्धापरिसमाप्तो भूत-
भविष्यद्भिन्नो वा कालो वर्तमानकालः इति वदन्ति ( वै० सा० ल०
पृ० १२० ) ( काशिका० ३।२।१२३) । तदर्थश्च विनष्टावयवप्राग-
भावकत्वे सत्यनुत्पन्नध्वंसान्त्यावयवकत्वम् । अथ वा शब्दप्रयोगाधिकरण-
वृत्तिकालस्वव्याप्यधर्मत्वेनोपलक्षिततत्तत्कालत्वावच्छिन्नत्वम् ( बै० सा०
६० ल० पृ० १२०) । वर्तमानसामीप्यं तु वर्तमानक्षणोत्तरकाला-
वच्छेद्यत्वम् । तेन चैत्रः कदा गमिष्यति इति जिज्ञासायाम् एष गच्छति
इत्युत्तरस्य वर्तमानक्षणोत्तरकालाबच्छेद्यगतिमांश्चैत्रः इत्यर्थः इति न
प्रश्नोत्तरभावासंगतिः । अथवा वर्तमानक्षणाव्यवहितप्राक्कालावच्छेद्यत्वम् ।
तेन चैत्रः कदा समागतः इति जिज्ञासायाम् एष आगच्छति इत्युत्तरस्य
वर्तमानक्षणाव्यवहित प्राक्कालावच्छेद्यागमनवान् इत्यर्थ इति न प्रश्नोत्तर-
भावासंगतिः ( श० प्र० श्लो० ९७ टी० पृ० १४४ ) ।
लता - दीर्घयायिन्यो द्राक्षातिमुक्ताप्रभृतयः ( मिताक्षरा अ० २/२२९ ) ।
-
लयः – १ विनाशः । कार्यस्य कारणे सूक्ष्मीभावेनावस्थानम् इति सांख्या
आहुः । तदुदाहृतम् आसीज्ज्ञानमथोप्यर्थ एकमेवा विकल्पितम् (सांख्य ०
भाष्य० ११६२) इति । २ प्रलयकालः इति पौराणिका आहुः ।
३ गायकास्तु नृत्यगीतवाद्यानामे कतानतारूपं साम्यं लयः इत्याहुः ।
ते लयभेदाश्च द्विपदी वलतिका झल्लिका छिन्नखण्डिका इत्यादयश्चत्वारिंश-
त्संख्याका: संगीतदामोदरादौ द्रष्टव्याः ( वाच० ) । ४ संश्लेष: इति
काव्यज्ञा वदन्ति । ५ ईश्वरः इति वेदान्तिनः संगिरन्ते ।
लवः - त्रुटिद्वयं लवः प्रोक्तः ( पुरु० पृ० ३१८ ) ।
लवण:- -१ ( गुण: ) रसविशेषः । अत्रोच्यते लवणः शोधनो रुच्यः
पाचनः कफपित्तदः । पुंस्त्ववातहरः कायशैथिल्य मृदुताकरः ॥ (भावप्र०)
इति । २ सिन्धुदेशः । ३ समुद्रः । ४ लावण्ययुतः ।