This page has not been fully proofread.

न्यायकोशः ।
 
वदन्ति । शस्तनत्वं लडो नार्थः । किं तु अद्यतनभिनत्वम् इत्यपरे दर्पण-
कृदादयः वदन्ति ( वै० सा० ८० पृ० १२९ - १३० ) । अनयतने
लङ् (पा० सू० ३।२।१११ ) इति पाणिनिना अनुशिष्टत्वात् इति
भावः । तथा च अपचदित्यादौ वर्तमानध्वंसप्रतियोगिपूर्वदिनवृत्तिपाक-
कृतिमान् इति तादृश प्रतियोग्यनद्यतनकालवृत्तिपाककृतिमान् इति वा
मतद्वये यथाक्रमं बोध: ( श० प्र० श्लो० १०१ टी० पृ० १६०) ।
अथ वा अनद्यतनातीतत्वं विशिष्टमेव लडर्थः । तच्च शब्दप्रयोगाधिकरण-
दिनाचक्षणवृत्तिध्वंसप्रतियोगित्वम् ( ग० व्यु० लका० पृ० १३८ ) ।
यद्वा अनद्यतनत्वम् अतीतत्वं च पृथगेव लढर्थ: ( तर्का० ४ पृ० ११)
( सि० च० ) । शब्दप्रयोगाधिकरणदिवसावृत्तित्वे सति शब्दप्रयोग-
कालीनध्वंस प्रतियोगित्वम् इति कश्चिद्वति । अस्य पुत्रोभवत् इत्यत्र शाब्दि-
कमते शाब्दबोधस्तु वर्तमानध्वंसप्रतियोग्यनद्यतनकालवृत्तिरेतत्संबन्धि-
पुत्रकर्तृकोत्पत्त्यनुकूलो व्यापारः इति (वै० सा० द० ल० पृ० १३०) ।
लट् – ( तिङ् ) यादृशतिङ: स्मशब्दोपसंधानाभावप्रयुक्तः स्वार्थातीतत्व-
बोधकत्वाभावः तादृशी तिङ् लडुच्यते । यथा जानाति जानीते पचति
पचते चैत्रः इत्यादौ तिबाख्यातम् । अत्र द्विरुक्तधात्वनाकाङ्क्षत्वेन
प्रकृत्यर्थ परोक्षत्वनिराकाङ्क्षत्वेन वा विशेषणीयम् । नातो बुभुजे बुभुजाते
इत्यादिस्थलीयलिव्यतिप्रसङ्गः । जानाति जानीते पचति पचते इत्यादौ
तिबादी नामष्टादशानामपि स्मशब्दोपसंधानाभावप्रयुक्तो ज्ञानादिधर्मिका-
ती तत्व बोधस्योपधायकत्वाभावः । स्मशब्दोपसंधाने तु जानाति स्म
इत्यादितोती तत्वबोधानुभवात् इति लक्षणसमन्वयः (श० प्र० श्लो० ९७
टी० पृ० १४२ ) । लट् द्विविधा परस्मैपदम् आत्मनेपदं चेति । एवम्
अन्या लोडाद्या अपि तिङ: परस्मैपदात्मनेपदभेदेन द्विविधा भवन्ति
इति विज्ञेयम् । लटो वर्तमानकाल: वर्तमानसामीप्यं चेति द्विविधोर्थः
( श० प्र० श्लो० ९७ टी० पृ० १४३-१४४) । अत्र सूत्रम् वर्तमाने
लट् (पा० सू० ३।२।१२३ ) इति । तदर्थस्तु वर्तमानार्थवृत्तेर्धातो-
र्लट्प्रत्ययो भवति ( काशिका ० ) । वर्तमानकाळस्तु तत्तच्छन्दप्रयोगा-
८९ न्या० को०
 
-