This page has not been fully proofread.

न्यायकोशः ।
 
२ स्पर्शविशेष इति केचिंदा: (सि० च० ) । ३ शीघ्राल्पोपस्थिति-
कत्वम् । यथा लघुनियतपूर्ववर्तिन एव कार्यसंभवे तद्भिन्नमन्यथासिद्धम्
इत्यादौ लघुत्वम् । इदं लघुत्वं त्रिविधम् शरीरकृतम् उपस्थितिकृतम्
संबन्धकृतं चेति ( दि० १ ) ( सि० च० ) । तत्र प्रथमम् द्रव्यप्रत्यक्षो-
त्पत्ति प्रति महत्त्वस्य कारणत्वे अनेकद्रव्यत्वापेक्षया महत्त्वस्य लघुत्वम् ।
द्वितीयम् गन्धोत्पत्तिं प्रति गन्धप्रागभावस्य कारणत्वे रूपप्रागभावा-
पेक्षया गन्धप्रागभावस्य लघुत्वम् । गन्धात्मक प्रतियोगिज्ञानस्य सत्वेन
शीघ्रं तदुपस्थितेः । तृतीयम् घटं प्रति दण्डस्य कारणत्वे दण्डत्वदण्ड-
रूपाद्यपेक्षया दण्डस्य लघुत्वम् इति । दण्डत्वादेः कारणत्वे तु स्वाश्रय-
दण्डसंयोगादिरूपपरंपराया गुरुत्वम् इति भावः ( दि० १ पृ० ५४ )
( नील० १ पृ० १७ ) । ४ दोषविशेषः (प० च० ) । ५ तर्क-
विशेषः । यथा लघुत्वकल्पनं तर्कविशेषः इत्यादौ इति प्राञ्चो नैयायिका
आहुः ( सर्व० पृ० २३९ अक्ष० ) ( गौ० वृ० ११ १२ १३९ ) ।
६ शाब्दिकास्तु इस्वसंज्ञकवर्णवृत्तिर्धर्मविशेष इत्याहुः । ७ पुष्याश्विहस्ता-
भिजित्संज्ञकेषु नक्षत्रेषु वर्तमानो धर्मविशेषः इति मौहूर्तिका आहुः ।
लड्– (तिङ् ) स्मशब्दस्य योगं विना शबन्तस्य धातोरर्थे अतीतत्वस्या-
न्वयधीहेतुर्यादृशी तिङ् तादृशी तिङ् लङ् इत्युच्यते । यथा अपचदित्यादौ
लङ् । यथा वा अस्य पुत्रः अभवदित्यादौ लङ् (वै० सा० ल० पृ० १३१) ।
तिबादिश्च स्मशब्दोपसंधानं विना धातोरर्थे नातीतत्वं बोधयति पपा-
चेत्यादौ लिडादिर्बोधयन्नपि न शबन्तस्य इति तिबादेर्लिंडादेव व्युदासः ।
अपचदित्यादौ तु विनापि स्मशब्दयोगं लङस्तथा त्वम् इति लक्षणसम
न्वयः । प्रकृत्यर्थे अनुमतत्वाद्यतनत्वायना काङ्क्षितत्वम् इति विशेषणाच
पश्चतां पचेतां पचन्ताम् इत्यादौ अपाक्ताम् अपक्षाताम् इत्यादौ अप-
क्ष्यतां अपक्ष्येताम् इत्यादौ च लोटो लुङो लङस्तामाताम्प्रभृतौ नाति-
प्रसङ्गः । अत्र लङोतीतः काल इव तन्निष्ठं स्तनत्वमप्यर्थः । अनद्यतने
लडू (पा० सू० ३।२।१११ ) इति सूत्रे अनद्यतनशब्दमहिस्रा
ह्यस्तनत्वं बोध्यत इति भावः । तच्च पूर्वदिनवृत्तित्वम् इति कौमारा