2023-02-20 00:56:29 by ambuda-bot
This page has not been fully proofread.
न्यायकोशः ।
७०३:
लक्ष्मीपूजापि तत्काले कार्या । [ ख ] आदिमाया शक्तिः इति बाम-
मार्गीयाः शाक्ता आहुः । [ग] भगवदिच्छा इत्यन्ये संगिरन्ते ।
घ ] चित्प्रकृतिरपि इति माध्याः संवदन्ते । एतन्मते लक्ष्मीरीशकोटि-
प्रविष्टा न तु जीवकोटिप्रविष्टा भगवदधीना च । तथा च श्रुतौ लक्ष्म्या
यं कामये तं तमुग्रं कृणोमि तं ब्रह्माणं तमृषि तं सुमेधाम् इत्युक्त्वा मम
योनिरस्वन्तः समुद्रे (ऋ० सं० ८।७।१।११-१२ ) इत्युक्तम् । [ङ ]
भगवदंशविशेषः इति वल्लभीया मन्यन्ते । २ शोभा । ३ कान्तिः ।
४ संपत्तिः । ५ स्थलपद्मम् । ६ हरिद्रा । ७ शमी । ८ वारयोषित्
इति काव्यज्ञा आहुः । ९ पीडा । १० औषधम् इति भिषजो वदन्ति ।
लक्ष्यम् – १. लक्षणया बोध्योर्थ: । तल्लक्षणं च लक्षणानिर्वाहकतात्पर्य
विषयत्वम् (कृष्ण० ) । यथा गङ्गायां घोष इत्यादौ गङ्गापदस्य लक्षणया
बोध्यस्तीररूपोर्थो लक्ष्यो भवति । २ [ क ] यदुद्दिश्य लक्षणमुच्यते
तत् । यथा गन्धवत्वं पृथिव्या लक्षणम् इत्युक्ते पृथिवी लक्ष्या । यथा
वा लक्ष्यतावच्छेदकमात्रेण लक्ष्यसंकीर्तनमुद्देश: ( त० कौ० ) इत्यादौ
च लक्ष्यशब्दार्थः । [ख ] वेदान्तिनस्तु यावदन्यतो व्यावर्तनीयम्
यावति चैकः शब्दो व्युत्पादनीयः तल्लक्ष्यम् इत्याहुः (प्र०प० पृ० २ ) ।
३ ज्ञेयम् । ४ अनुमेयम् ( त्रि० ) । ५ वेधार्थमुद्दिश्यमानं शरव्यम्
इति काव्यज्ञा आहुः ।
लग्नः – १ संबन्धविशेषानुयोगी । संबद्ध इति यावत् । यथा कार्यविशेष-
-
:
लग्नः इसादौ । २ मेषादिराशीनामुदयः इति ज्योतिषज्ञा आहुः ।
३ प्रतिभूः ( जामीन ) इति व्यवहारशास्त्रज्ञा वदन्ति ( अमरका० २
शूद्र० लो० ४४ ) । अत्रोदाह्वियते प्रसङ्गतः खादको वित्तहीनः
स्यालको वित्तवान् यदि ( स्मृति० ) ( वाच० ) इति । ४ लज्जितः ।
५ स्तुतिपाठकः इति काव्यज्ञा आहुः । विवाहेपि लग्नशब्दं प्रयुञ्जन्ति
प्राकृतजनाः ।
-
लघुत्वम् - १ गुरुत्वाभावः ( सि० च० १ पृ० ३ ) (प० च० पृ० १९ )
( त० दी० १ पृ० ६ ) । यथा मृदु लघु चेदं द्रव्यम् इत्यादी लघुत्वम् ।