2023-02-20 00:56:29 by ambuda-bot
This page has not been fully proofread.
1900
न्यायकोशः ।
तथा हि एकदेशविकृतमनन्यवद्भवति इति न्यायेन चित्रगुरित्यत्र चित्रा
गौः इति वाक्यस्य सत्त्वात् तस्य च बोध्यम् चित्रा गौः तत्संबन्ध-
चित्रगो: स्वामिन्यस्ति इति ( त० प्र० ख० ४ पृ० ४५-४६ ) ।
एतन्मते वाक्ये लक्षणाया आवश्यकत्वं तु लक्षकशब्दव्याख्याने समव-
लोकनीयम् । [ छ ] आलंकारिकाश्च शक्यसंबन्धज्ञानं लक्षणा ( काव्य-
प्रदी० ) । [ज ] शक्यतावच्छेदकारोपविषयनिष्ठसंसर्गः । एतन्मते गङ्गायां
घोष इत्यादौ गङ्गात्वेनैव लक्ष्यार्थप्रतीतिः । अत एव ततो वैयञ्जनिकी शैत्य-
पावनत्वादिप्रतीतिः (वै० सा० ८० ) । [ ] मुख्यार्थबाधतद्योगाभ्या-
मर्थान्तरप्रतिपादनं लक्षणा । सा च द्विविधा रूढिमूला प्रयोजनमूला
च । तदुक्तं काव्यप्रकाशे मुख्यार्थबाघे तद्योगे रूढितोथ प्रयोजनात् ।
अन्योर्थो लक्ष्यते यत्सा लक्षणारोपिता क्रिया ॥ ( सर्व० सं० पृ०
३७३ पात० ) इति । तथा च लक्षणा द्विविधा निरूढलक्षणा स्वारसिक-
लक्षणा च इति । प्राचां मते लक्षणा चतुर्विधा जहत्स्वार्था अजह-
त्स्वार्था जहदजहरस्वार्था लक्षितलक्षणा चेति (मु० ४ ) । नव्यनैया-
यिकानां मते तु लक्षणा त्रिविधा जहल्लक्षणा अजहल्लक्षणा जहदजह•
लक्षणा च ( त० दी० ४ ) । यच्चोक्तं ग्रन्थान्तरे शक्येन सह संबन्धात्
सादृश्यात् सभवायत: । वैपरीत्यात् क्रियायोगालक्षणा पञ्चधा मता ॥
इति तस्य गौणी शुद्धा चेति भेदद्वय एव तात्पर्यम् ( म० प्र० ख० ४
पृ० ४१ ) । शाब्दिकानामालंकारिकाणां च मते लक्षणा द्विधा गौणी
शुद्धा च । तत्र गौण्यां सादृश्यात्मकः शक्यसंबन्धः । यथा गौर्वाहीक
इति ( न्या० म० ४ पृ० १०) ( न्या० बो० ) । तदर्थश्च वाहीको वा-
हीकदेशोद्भवः । गौर्बलीवर्दः । वाहीके गवाभेदस्य बाधात् गोपदेन गोसदृशो
लक्ष्यते । सादृश्यं च गोगतजाड्यमान्यादिकमेव । तथा च जडो मन्दश्च
वाहीकः इति शाब्दबोध: ( त० प्र० ख० ४ पृ० ३५-३६ ) ।
अत्र भट्टवार्तिकम् अभिधेयाविना भूतप्रतीतिर्लक्षणोच्यते । लक्ष्यमाणगुणै-
र्योगाद्वत्तेरिष्टा तु गौणता ॥ ( काव्यप्र० उ० २) इति । शुद्धा च
द्विविधा जहलक्षणा अजहल्लक्षणा चेति ( न्या० म० ४ पृ० १०)
( न्या० बो० ) । जगदीशमते तु प्रकारान्तरेण जहत्स्वार्था अजहरस्वार्था